________________
विशेषा ०
॥१२८॥
Jain Education is
'नेगंतेण मणुन्न मणुन्नपरिणामकारणं दव्वं । वभिचाराओ, सेसा बिंति तओ सव्वदव्त्रेसु || ३३८६ ॥
व्याख्या - केषु द्रव्येषु व्यवस्थितस्य सामायिकं क्रियते निर्वर्त्यते ? । अत्र नैगमनयो भाषते मनोज्ञेषु शयना ऽऽसनादिषु स्थितस्य तत् क्रियते, मनोज्ञपरिणामकारणत्वात् । तथा च कैश्चिदुक्तम्
"मैणुनं भोयणं भोच्चा मन्नं सयणासणं । मणुन्नम्म अगारम्मि मणुन्नं झायए मुणी ॥ १ ॥ "
इत्यादि । शेषास्तु संग्रहादयो ब्रुवते - नैकान्तेन मनोज्ञं द्रव्यं मनोज्ञपरिणामकारणं भवति, व्यभिचारात्, मनोज्ञेऽपि कस्यापि स्वाभिप्रायेणामनोज्ञपरिणामभावात्, अमनोज्ञेऽपि च कस्यापि मनोज्ञपरिणाम सद्भावात् । ततः सर्वद्रव्येषु व्यवस्थितस्य सामायिकं क्रियते ।। ३३८५ ।। ३३८६ ।।
अत्राक्षेप - परिहारावाद -
न भणिय मुग्धा केसु तीहं कओ पुणो पुच्छा ? । केसु ति तत्थ विसओ इह केसु डिअरस तल्लाभो ||३३८७॥
ननूपोद्घाते 'किं कइविहं' इत्यादिगाथायां 'केषु सामायिकं भवति' इति भणितमेव, इह कुतः पुनरपि पृच्छावसरः ? । नैवम्, तत्र हि केषु द्रव्यपर्यायाः सामायिकस्य विषये भवन्तीत्युक्तम् ; तथा च तत्र निर्वचनम् 'सव्वगयं सम्मत्तं' इत्यादि । इह तु कंषु द्रव्येषु स्थितस्य सामायिकलाभो भवतीत्युच्यत इति महान् भेद इति ।। ३३८७ ॥
यदि न पौनरुक्त्यम् तर्ह्यन्यदूषणम् । किं तत् : इत्याह
तो हि सव्वदव्वावत्थाणं जाइमित्तत्रयणाओ । धम्माइसव्वदव्वाधारो सव्वो जओऽवस्सं || ३३८८ ॥ ततस्तर्हि कथं सर्वद्रव्येष्ववस्थानं संभवति, येनोच्यते--' सेसा विंति तओ सव्वदव्वेसु' इति । न हि सर्वेष्वाकाशादिद्रव्येषु
१ नैकान्तेन मनोशं मनोज्ञपरिणामकारणं द्रव्यम् । व्यभिचारात् शेषा ब्रुवन्ति ततः सर्वद्रव्येषु ||३३८६ ॥
२ मनोज्ञं भोजनं भुक्त्वा मनोज्ञं शयनासनम् । मनोज्ञेऽगारे मनोज्ञं ध्यायति मुनिः ॥ १ ॥
३ ननु भणितमुपोते के ष्वितीह कुतः पुनः पृच्छा ? । केष्विति तत्र विषय इह केषु स्थितस्य तल्लाभः || ३३८७ ॥ ४ ततः कथं सर्वद्रव्यावस्थानं जातिमात्रवचनात् । धर्मादिसर्वद्रव्याधारः सर्वो यतोऽवश्यम् ।। ३३८८ ।।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१२८॥
www.jainelibrary.org