SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१२॥ ००० आह-ननु 'उद्देसे निदेसे य निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने 'महावीरात् तन्निर्गतम् ' इत्यादिप्रतिपादनेन 'केन कृतं तत्' इत्येतद् गतमेवोक्तार्थमेव, पुनरपीह का पृच्छा। भण्यतेऽत्रोत्तरम् - स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्तः, इह तु विशेषेणान्तरङ्गकर्ता जिज्ञासितः । स च नैश्चयिकः सामायिकानुष्ठाता साध्वादिष्टव्यः, सामायिकपरिणामानन्यत्वादिति ॥३३८३॥ परिहारान्तरमाहअहवा सततकता तत्थेह पउज्जकारगोऽभिमओ । अहवेह सव्वकारगपरिणामाणन्नरूवो ति ॥ ३३८४ ॥ अथवा, तत्र निर्गमे भगवांस्तीर्थकरः खयंबुद्धत्वात् स्वतन्त्रकर्ताऽभिहितः, इह तस्यैव भगवतस्तीर्थकरस्य यः प्रयोज्यः प्रबोधनीयः सन् कारकः साध्वादिः स कर्ताऽभिमतः । अथवा, इह कर्ता सर्वकारकपरिणामानन्यरूपोऽभिमतः, स च साध्वादिरेव सामायिकानुष्ठाता मन्तव्यः; तथाहिसामायिक कुर्वन्नसौ कर्ता, क्रियमाणत्वेन च कर्मरूपात सामायिकादनन्यत्वात् कर्म, सामायिकं येना. ध्यवसायेन करणभूतेनासौ करोति तस्मादनन्यत्वात् करणम् । गुरुणा चास्मै सामायिक प्रदीयत इति संप्रदानम् , सामायिक चास्मात् शिष्य-प्रशिष्यपरम्परया प्रवर्तिष्यत इत्यपादानम् , खपरिणामे च सामायिकमव्यवच्छिन्नं धरतीत्यधिकरणमित्यवं सर्वकारकपरिणामानन्यरूपः कर्ता भवत्यसाविति । आह-ननु यद्यन्तरङ्गः प्रयोज्यः सर्वकारकपरिणामानन्यरूपश्च कर्ता साध्वादिरिह विवक्षितः, तर्हि 'जिनेन्द्रेण गणधरैश्च कृतं तत्' इति कस्मादुक्तम्, जिनेन्द्र गणधराणामिहाविवक्षितत्वात् । सत्यम्, किन्तु जिनेन्द्रस्यापि सामायिकस्यान्तरङ्गकर्तृत्वं सर्वकारकपरिणामानन्यरूपकर्तृत्वं प्रायो न विरुध्यते, तेनापि तस्यानुष्ठितत्वात्, गणधराणां तु प्रयोज्यकर्तृत्वमपि युज्यत एव, जिनेन्द्रप्रयोज्यत्वात् तेषामिति । अतो जिनेन्द्र-गणधराणामप्युपन्यासोऽत्र न विरुध्यत इति ॥३३८४॥ गतं 'केन कृतम्' इति द्वारम् ॥ अथ 'केषु द्रव्येषु तत् क्रियते' इति द्वारमभिधित्सुराहदेव्वेसु केसु कीरइ सामइयं नेगमो मणुण्णेसु । सयणाइएसु भासइ मणुण्णपरिणामकारणओ ॥ ३३८५ ॥ १ अथवा स्वतन्त्रकर्ता तत्रह प्रयोज्यकारकोऽभिमतः । अथवेह सर्वकारकपरिणामानन्यरूप इति ।। ३३८४ ।। २ द्रव्येषु केषु क्रियत सामायिक नैगमो मनोज्ञेषु । शयनादिकेषु भाषते मनोज्ञपरिणामकारणतः ।। ३३८५ ।। ॥१२॥ Jain Educationa.inta For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy