________________
विशेषा.
बृहद्वृत्तिः
॥१२८६॥
तथोत्तरोत्तरशुद्ध्या परिणमतः सामायिकगुणस्य परिणामान्तरात् परिणामोत्पत्तौ पूर्वपरिणामस्य व्यये विगमे, उत्तरपरिणामस्य तु विभवेऽप्युत्पादेऽपि परिणामसामान्यं नित्यमवतिष्ठते । ततः सामायिकगुणस्य त्रिरूपता । अस्माच्च त्रैरूप्यात् तस्य कृताकृतत्वम् : परगुणत्वाद् वा परगुणमाश्रित्य कृताकृतत्वमिति ॥३३७९॥३३८०॥
अथवा, अन्यथापि सामायिकस्य कृताकृतत्वं वक्तव्यम्, कथम् ? इत्याहदेव्वाइचउकं वा पडुच्च कयमकयमहव सामइयं । एगपुरिसाइओ कयमकयं नाणानराईहिं ॥ ३३८१ ॥
अथवा, द्रव्यादिचतुष्कं द्रव्य-क्षेत्र-काल-भावचतुष्टयं प्रतीत्य कृतमकृतं च सामायिक भावनीयम् । तथाहि-एक विवक्षितं पुरुषद्रव्यं प्रतीत्य कृतं सामायिकम्, सादिसपर्यवसितत्वात् । नानापुरुषद्रव्याण्याश्रित्य पुनरकृतम्, अनाद्यपर्यवसितत्वादिति । आदिशब्दाद् भरतैरावतक्षेत्राणि प्रतीत्य कृतम्, महाविदेहक्षेत्रेष्वकृतम्, अवच्छिन्नप्रवाहत्वेन नित्यत्वादिति । तथा, उत्सर्पिण्य-ऽवसर्पिणी
कालमाश्रित्य कृतम्, व्यवच्छिद्यमानत्वेनाऽनित्यत्वात् । नोउत्सर्पिण्यवसर्पिणीकालं त्वाश्रित्याकृतम्, अव्यवच्छिन्नत्वेन नित्यत्वात् । 9 भावं त्वेकपुरुषोपयोगं प्रतीत्य कृतम् , नानापुरुषोपयोगानाश्रित्य पुनरकृतम् । इत्येवं वा कृताकृतं सामायिकमिति ।। ३३८१ ॥ तदेवमुक्तं कृताकृतद्वारम् ॥
अथ 'केन कृतम्' इति द्वारं विवरीषुराहकण केयं ति य ववहारओ जिणिदेण गणहरेहिं च । तस्सामिणा उ निच्छयनयस्स तत्तो जओऽणनं ॥३३८२॥ पाठसिद्धा ॥ ३३८२॥ अत्राक्षेप-परिहारौ पाहनेणु निग्गमे कयं चिय केण कयं तं ति का पुणो पुच्छा । भण्णइ, स बज्झकत्ता इतरंगो विसेसेणं ॥३३८३॥
१ द्रव्यादिचतुष्क वा प्रतीत्य कृतमकृतमथवा सामायिकम् । एकपुरुषादितः कृतमकृतं नानानरादिभिः ॥ ३३८१ ।। २ केन कृतमिति च व्यवहारतो जिनेन्द्रेण गणधरैश्च । तत्स्वामिना तु निश्चयनयस्य तता यतोऽनन्यत् ॥ ३३८२ ॥ ३ ननु निर्गमे कृतमेव केन कृतं तदिति का पुनः पृच्छा ? । भण्यते, स बाह्यकर्ता इहान्तरङ्गो विशेषण ॥ ३३८३ ॥
॥१६॥
For Personal and
Use Only
mainsbrary.org