________________
विशेषा
बृहद्वृत्तिः ।
॥१२॥
नेणु दव्वमणत्थंतरपज्जायंतरविसेसणेहिं जुज्जेज । उप्पायाइसहावं न उ सामाइयं गुणो जम्हा ॥ ३३७६ ॥ सो उप्पण्णो उप्पण्ण एव विगओ य विगय एवेह । किं सेसमस्स जेणिह कयाकयादेसया होज्जा ? ॥३३७७ ॥
ननु द्रव्यमनर्थान्तरभूतपर्यायान्तरविशेषणैरुत्पादादिस्वभावं युज्येत, न तु सामायिकम्, 'गुणो जम्ह त्ति' गुणमात्ररूपत्वादिति ।। स हि गुण उत्पन्नः समुत्पन्न एव, न तु विगतोऽवस्थितो वा; यदा तु विगतस्तदा विगत एव, न तूत्पन्नोऽवस्थितो वा । अतः किं शेषमस्योद्धतम् , येनेह कृताकृतादेशता कृताकृतरूपता स्यात् ? इति ॥ ३३७६ ॥ ३३७७ ॥
मूरिरुत्तरमाहजं चिय दवाणन्नो पज्जाओ तं च तिविहसब्भावं । तो सो वि तिरूवो च्चिय तत्तो य कयाकयसहावो ॥३३७८॥
यस्मादेव पर्यायो द्रव्यानन्यः, तच्च द्रव्यमुत्पाद-व्यय-ध्रौव्यलक्षगत्रिविधस्वभावम्, ततो द्रव्यानन्यत्वात् सोऽपि पर्यायनिरूप एव, अतश्च द्रव्यवत् कृताकृतस्वभावः स्यादेवेति ॥ ३३७८ ॥
अथवा, स्वतन्त्रस्यापि सामायिकगुणस्य त्रिरूपता घटत एवेति । कथम् ? इत्याहजहवा रूवंतरओ विगमुप्पाए वि रूवसामण्णं । निच्चं कयाकयमओ रूवं परपज्जयाओ वा ॥ ३३७९ ॥ तह परिणामंतरओ वय-विभवे वि परिणामसामण्णं । निच्चं कयाकयमओ सामइयं परगुणाओ वा ॥ ३३८० ॥
यथा वा घटादौ रक्तत्वादिरूपाच्छुक्लत्वादिरूपान्तरोत्पत्तौ पूर्वरूपस्य विगमे उत्तररूपस्योत्पादेऽपि रूपसामान्यं नित्यमवतिष्ठते, अतो रूपगुणस्य त्रिरूपता; अस्माच्च त्रैरूप्यात् कृताकृतं रूपं युज्यते । परपर्यायाद् वा परपर्यायमाश्रित्य कृताकृतं युज्यत इति ।
१ ननु द्रव्यमनर्थान्तरपर्यायान्तरविशेषणैयुज्येत । उत्पादादिस्वभावं न तु सामायिकं गुणो यस्मात् ।। ३३७६ ॥
स उत्पन्न उत्पन्न एव विगतश्च विगत एवेह । किं शेषमस्य येनेह कृताकृतादेशता भवेत् ? ।। ३३७७ ।। २ यदेव द्रव्यानन्यः पर्यायस्तच त्रिविधसद्भावम् । ततः सोऽपि त्रिरूप एव ततश्च कृताकृतस्वभावः ॥ ३३७८ ।। ३ यथावा रूपान्तरतो विगमोत्पादयोरपि रूपसामान्यम् । नित्यं कृताकृतमतो रूपं परपर्ययाद् वा ।। ३३७९ ॥ तथा परिणामान्तरतो व्यय-विभवयोरपि परिणामसामान्यम् । नित्यं कृताकृतमतः सामायिकं परगुणाद् वा ।।३३८०॥
॥१८॥
For Personal and
Use Only