SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१८॥ १९९९४.. कोऽप्यवतिष्ठत इति । उच्यते-जातिमात्रवचनात् सर्वद्रव्यमात्रस्येह विवक्षणात् , जातिमात्रं च सर्वद्रव्यैकदेशेऽपि प्राप्यत इति । ननु देशतोऽपि किं सर्वव्याधारः कोऽपि प्राप्यते । उच्यते--प्राप्यत एव, यतो धर्मास्तिकाया-ऽधर्मास्तिकाया-ऽऽकाशास्तिकायजीव-पुद्गलाधारः सर्वोऽप्यवश्यं जीवलोक इति परिहृतं प्रासनिक दूषणम् ॥ ३३८८ ॥ अथ प्रस्तुतर्यस्य परिहारान्तरमाह'विसओ व उवग्याए केसु त्ति इहं स एव हेउ ति । सद्धेय-नेय-किरियानिबंधणं जेण सामइयं ॥ ३३८९ ॥ अथवा, उपोद्धाते सर्वद्रव्याणि सामायिकस्य विषये भवन्तीत्युक्तम् । इह तु स एव सामायिकलाभः सर्वद्रव्येषु हेतुभूतेषु भवतीत्युच्यत इति । कथं पुनः सर्वाण्यपि द्रव्याणि सामायिकस्य हेतुर्भवन्ति ? इत्याह- 'सद्धयेत्यादि' श्रद्धेयानि च ज्ञेयानि च चारित्रक्रियाहेतुभूतानि च यानि द्रव्याणि तानिवन्धनं तहेतुकं येन सामायिकम् । न च श्रद्धयादिभ्योऽन्यानि सर्वव्याणीति, नापि विषयहेत्वोरेकत्वमवगन्तव्यम्, विषयस्य गोचररूपत्वात्, जीवघातनिवृत्तेः सर्वजीववद्धेतोरुपष्टम्भकत्वात्, अन्नादिवदिति ॥३३८९॥ अन्यदपि परिहारान्तरमाहअहवा कयाकयाइसु कजं केण व कयं च कत्तत्ति । केसु त्ति करणभावो तइयत्थे सत्तमि काउं ॥ ३३९.॥ अथवा, कृताकृतादिद्वारेषु प्रथमे कृताकृतद्वारे कळ यत् क्रियते तत् कार्य सामायिकमुक्तम्, 'केन कृतम्' इति च द्वितीयद्वारे सामायिकस्यैव कर्ता निर्दिष्टः, 'केषु' इति तृतीयद्वारे तु तृतीयार्थे सप्तषीं कृत्वा करणमभिहितम्, केद्रव्यैः करणभूते: सामायिक क्रियत इति नोपोद्घातेन सह पौनरुक्त्यमिति ॥ ३३९० ॥ ___ अथ 'कदा कारको भवति' इति नयनिरूपयन्नाह उद्दिढे च्चिय नेगमनयस्स कत्ताऽणहिजमाणो वि । जं कारणमहेसो तम्मि य कज्जोवयारो त्ति ॥ ३३९१ ॥ १ विषयो वोपोहाते केवितीइ स एव हेतुरिति । श्रद्धेय-ज्ञेय-क्रियानिबन्धनं येन सामायिकम् ।। ३३८९ ।। २अथवा कृताकृतादिपु कार्य केन वा कृतं कर्तेति । केष्विति करणभावस्तृतीयार्थे सप्तमी कृत्वा ।। ३३९०॥ ३ सदिष्ट एवं नैगमनयस्य कर्ताऽनधीवानोऽपि । यत् कारणमुद्देशस्तस्मिंश्व कार्योपचार इति ॥ ३३९१ ।। ॥१८॥
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy