________________
विशेषा० १eon
इहोदिष्ट एव गुरुणा सामायिके मैगमनयस्यानधीयानोऽपि शिष्यस्तकर्ता भवति । भाह-ननु कार्यस्य कर्ता भवति, कार्य च सामायिकमुदेशस्थले नास्ति, तत् कथं तस्यासौ फर्ता भवति ? इत्याह-'जमित्यादि' यस्मात् सामायिककारणमुदेशः, तस्मिंश्यो देशलक्षणे कारणे कार्यस्य सामायिकस्योपचारः क्रियत इति सामायिकस्य कर्तासौ भवतीति ।। ३३९१ ॥
संग्रह व्यवहारनयमतमाहसंगह-ववहाराणं पच्चासन्नयरकारणत्तणओ । उहिट्ठम्मि तदत्थं गुरुपामूले समासीणो॥ ३३९२ ॥
संग्रह व्यवहारयोरुद्दिष्टे सामायिके सत्पठनार्थ गुरुपादमूळे समासीनः शिष्यः प्रत्यासनतरकारणत्वात् पूर्ववत् तत्र सामायिककार्योपचारतः कर्ता भवतीति ॥ ३३९२ ।।
ऋजुमूत्रमतमाहउज्जुसुयस्स पढंतो तं कुणमाणो वि निरुवओगो वि । आसन्नासाहारणकारण ओ सह-किरियाणं ॥ ३३९३ ॥
ऋजुसूत्रस्यानुपयुक्तोऽपि सामायिकं पठन् , तथा कुर्वस्तदर्थक्रियामनुतिष्ठन् सामायिकस्य कर्ता भवति, सामायिकासन्नतरा. साधारणकारणत्वात तद्विषयशब्द-क्रिययोरिति ॥ ३३९३ ॥
शब्दादिमतमाहसामाइओवउत्तो कत्ता सह-किरियाविउत्तो वि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥ ३३९४ ॥
शब्दादिनयानां सामायिकोपयुक्तः शब्द क्रियावियुक्तोऽपि सामायिककर्ता भवति, पेन यस्माद् मनोझो विशुद्धपरिणाम एव तेषां सामायिकमिति ।। ३३९४ ।।
___ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थसंबन्धनार्थमाह
.
.
.
.
.
.
१प्रह-व्यवहारयोः प्रत्यासम्मतरकारणत्वतः । उद्दिष्टे तदथे गुरुपादमूले समासीनः ॥ ३३९२ ।। २ रजुसूत्रस्य पठस्तत्कुर्वाणोऽपि निरुपयोगोऽपि । आसन्नासाधारणकारणतः शब्द-क्रिययोः ॥ ३३९३ ।। ३ सामायिकोपयुक्तः कर्ता शब्द-क्रियावियुक्त इति । शब्दादीनां मनोज्ञः परिणामो येन सामायिकम् ॥ ३३९४ ।।
॥१३
॥