SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः ॥१२९९॥ कत्ता नयओऽभिहिओ अहवा नयउ त्ति नीइओ नेओ । सामाइयहे उपउज्जकारओ सो नओ य इमो ॥३३९५॥ तदेवं सामायिकस्य कर्ता नयतो नयैरभिहितः । अथवा, 'कदा वा कारकः' इत्यस्माद् नय इति पृथगेव द्वारम् । तत्र चायपी-नयतो नीतितो विधिना सामायिकस्य हेतुः कर्ता सामायिकस्य प्रयोज्यकारको ज्ञेयः । कः पुनरसौ नय इत्याह-स चायम् ॥ इति द्वात्रिंशद्गाथार्थः ।। ३३९५ ।। अत्रापि 'उप्पणाणुप्पनं कयाकयं इत्य जइ नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यम् । एवमुत्तरत्रापीति॥ अथ तमेव नयमष्टमकारमाहआलोयणा य विणए खित्त दिसाभिग्गहे य काले य । रिक्ख-गुणसंपदा विय अभिवाहारे य अट्ठमए ॥३३९६॥ इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना, विनयश्च बाह्य आसनदानाऽभ्युत्थानादिः, अन्तरजस्तु बहुमानादिः, तथा, क्षेत्रमिक्षक्षेत्रादि, तथा, दिगभिग्रहश्च वक्ष्यमाणलक्षण:, कालच दिवसादिः, तथा, ऋक्षसंपद् नक्षत्रसंपदिति, गुणाः प्रियधर्मवादयः स्तत्संपत प्राप्तिरिति, अभिव्याहरणमभिव्याहारः कालिकादिश्रुतविषय उद्देश समुदेशादिरिति । अयं चाष्टमो नयः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ३३९६ ॥ अथालोचनानय भाष्यकारो विवृण्वन्नाहसामाइयत्थमुवसंपया गिहत्थरस होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥३३९७।। तत्र गृहस्थेआलोढयम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियरस देज नियमा न सेसाणं ॥३३९८॥ १ का नयतोऽभिहितोऽथवा नयत इति नीतितो ज्ञेयः । सामायिकहेतुप्रयोज्यकारकः स नयश्चायम् ॥ ३३९५ ।। २ आलोचना च विनयः क्षेत्र दिगभिप्रहश्व कालश्च । ऋक्ष-गुणसंपद अपि चाभिव्याहारश्चाष्टमकः ॥ ३३९६ ॥ ३ सामायिकार्थमुपसंपद् गृहस्थस्य भवेद् यतेवों । उभयस्य प्रयुक्तालोचितस्य सामायिकं दद्यात् ॥ ३३९७ ।। आलोचित दीक्षाहस्य गृहिणश्चारित्रसामाविकम् । बालादिदोषराहतस्य दद्याद् नियमाद् न शेषाणाम् ।। ३३९८ ।। १२८२॥ For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy