________________
विशेषा०
॥१२२॥
Jain Educationa h
स्पष्टे, नवरं आलोचिते आलोकिते विज्ञाते यथा द्रव्यतो ज्ञातोऽसौ न नपुंसकादिः, क्षेत्रतस्तु विज्ञातो यथा नायमनार्यः, कालस्त्ववगतो यथा शीतोष्णादिना न क्लाम्यति, भावतस्त्ववबुद्धो यथा नीरोगानलसादिरूपः । ततश्चैवमालोकिते निश्चिते च दी क्षार्हस्य बालादिदोषरहितस्य गृहिणश्चारित्रसामायिकं दद्यादिति ।। ३३९७ ।। ३३९८ ।।
ननु गृहस्थस्य सामायिक सूत्रार्थमुपसंपदित्यवगम्यते, श्रमणस्य तु व्रतग्रहणकाल एवाधीत सामायिकत्वात् कथं तदर्थमुपसंपद् भवेत् ? इत्याह
सामाइयत्थसवणोवसंपया साहुणो हवेजाहि । वाघायमेसकालं च पइ सुयत्थं पि होजाहि ॥ ३३९९ ॥
यदा गुरुः सूत्रमात्रविदेव भवति, सूत्रं चादत्वा परलोकीभूतो भवेत् तदा तच्छिष्यस्य साधोः सामायिकार्थश्रवणनिमित्तमन्यत्रोपसंपद् भवेत् । अथवा, 'सुयत्थं पि होज्जाहि त्ति' व्याघातमेष्यत्कालं वा प्रति तौ प्रतीत्येत्यर्थः सूत्रमात्रार्थमपि साधोरन्यत्रो पसंपद् भवेत् । इदमुक्तं भवति ग्लानभावेन व्यन्तरोपसर्गादिना वा व्याघातेन पतिते विस्मृते सामायिकसूत्रे, एष्यति वा दुःषमाकाले प्रज्ञामान्यादसमाप्त सामायिकसूत्रमात्रा अपि साधवो भविष्यन्तो निगुर्वभावीभवनादिना कारणेन सर्वस्यापि सामायिकसूत्रस्य पठनार्थम्, असमाप्तस्य वा समाप्त्यर्थमन्यत्र साधोरुपसंपद् भवेदिति ॥ ३३९९ ।। तदेवं चारित्रसामायिकमङ्गीकृत्य तदर्थश्रवणार्थं तत्सूत्रमात्र पठनार्थं वा साधोरन्यत्रोपसंपदुक्ता ॥
अथवा श्रुतसामायिकमङ्गीकृत्य समस्तद्वादशाङ्गसूत्रार्थोभयार्थमप्युपसंपद् भवेदिति दर्शयन्नाह -
सव्वं व बारसंग सुयसामइयं ति तदुभयत्थं ति । होज्जालोइयभावस्त देज्ज सुत्तं तदत्थं वा ॥ ३४०० ॥ अथवा, सर्वमपि द्वादशाङ्गं श्रुतसामायिकं भण्यते, अतस्तदुभयार्थं समस्तद्वादशाङ्गसूत्रार्थोभयनिमित्तमप्युपसंपद् भवेत् अत आलोचितभावस्य दत्तविशुद्धालेोचनस्य सूत्रमर्थं वा दद्यादिति ।। ३४०० ॥ उक्तमालोचनाद्वारम् ||
अथ विनयद्वारमभिधित्सुराह -
१ सामायिकार्थश्रवणोपसंपत् साधोर्भवेत् । व्याघातमेष्यत्कालं च प्रति सूत्रार्थमपि भवेत् ।। ३३९९ ।। २ सर्ववा द्वादशाङ्गं श्रुतखामायिकमिति तदुभयार्थमिति । भवेदालोचितभावस्य दद्यात् सूत्रं तदर्थं वा ॥। ३४०० ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२२॥
www.jaineibrary.org