________________
विशेषा०
बृहदत्तिः ।
॥१२७॥
लोए अणिबहाई अड्डिय-पच्चड्डियाई करणाई । पंचादेससयाई मरुदेवाईणि उत्तरिए ॥ ३३५७ ॥
लोकेऽनिबद्धान्युपदेशमात्ररूपाणि, न पुनः शास्त्रनिबद्धानि मल्लानां करणविशेषरूपाण्याडिका-प्रत्यड्डिकादीनि विज्ञेयानि । लोकोत्तरे त्वनिबद्धानि पञ्च शतान्यादेशानां बोद्धव्यानि । 'मरुदेवाईणि त्ति' मरुदेच्यादेश आदौ येषां तानि मरुदेव्यादीनि पश्चादेशशतानि यथाऽत्यन्तस्थावरानादिवनस्पतिकायादुनृत्य मरुदेवी प्रथमजिनमाता सिद्धति ॥ ३३५७ ॥
यदुक्तम् – 'उत्ती भो सद्दकरणं' इत्यादि, तत्र प्रेय परिहारं चाहभावकरणाहिगारे किमिहं सदाइदव्वकरणेणं । भण्णइ तत्थवि भावो विवक्खिओ तविसिट्ठो उ ॥ ३३५८ ॥
नन्विह भावकरणाधिकारे किमप्रस्तुतेन शब्दादिद्रव्यकरणोपन्यासेन ? । आदिशब्दः शब्दगतानेकभेदसंग्राहकः । भव्यतेऽत्रो. त्तरम्-तत्रापि शब्दद्रव्यकरणे भाव एव भावश्रुतमेव विवक्षितम् । कथंभूतो भावः ? तद्विशिष्टः शब्दविशिष्टः । अयमभिप्रायःप्रकाशपाठादिके शब्दकरणेऽपि न केवलशब्द एव विवक्षितः, किन्तु यत् तस्य कारणरूपं कार्यरूपं च भावश्रुतं तदेव शब्दविशिष्टमिह विवक्षितमित्यदोष इति ।। ३३५८ ॥ उक्तं श्रुतकरणम् ॥ ___ अथ नोश्रुतकरणमाह
नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तव-संजमकरणं मूलुत्तरगुणा वा ॥ ३३५९ ॥
नोशन्दस्य सर्वनिषेधवचनात् श्रुतव्यतिरिक्तं यत् तपः-संयमादिरूपस्य जीवभावस्य करणं तद् नोश्रुतभावकरणम् । तच्च द्विविधम् - गुणकरणम्, तथा, 'झुंजणाभिहाणं ति ' युज्यन्त इति योगा मनःप्रभृतयस्तेषां यत् करणं तद् योजनाभिधानं करणमिति । तत्र गुणकरणं तपः संयमयोः करणम् , अथवा, मूलगुणकरणम् , उत्तरगुणकरणं च गुणकरणमुच्यत इति ॥ ३३५९ ।। अथ योगकरणव्याख्यानमाह
१ लोकेऽनिबद्धानि अहिक-प्रत्यहिकानि करणानि । पञ्चादेशशतानि मरुदेवादीनि उत्तरस्मिन् ।। ३३५७ ॥ २ भावकरणाधिकारे किमिह शब्दादिद्रव्यकरणेन । भण्यते तत्रापि भावो विवक्षितस्तद्विशिष्टस्तु ।। ३३५८ ।। ३ नोश्रुतकरण द्विविधं गुणकरणं योजनाभिधानं च । गुणकरणं तपः-संयमकरणं मूलो-त्तरगुणा वा ॥ ३३५९ ।।
॥१३७॥
Jain Education
For Personal and
Use Only