________________
विशेषा० ॥१२७८ ।।
Jain Education Inte
अथ जीवभावकरणमाह
ह जीवभावकरणं सुकरणं सुयाभिहाणं च । सुयकरणं दुवियप्पं लोइय लोउत्तरं चैव ॥ ३३५४ ॥ बद्धाबद्धं च पुणो सत्यासत्थोवएसभेयाओ । एक्केकं सद्दनिसीहकरणभेयं मुणेयव्वं ॥ ३३५५ ॥
व्याख्या - जीवस्य भावो जीवभावस्तस्य करणं जीवभावकरणम् । तच्च द्विविधम् श्रुतज्ञानभावकरणं, श्रुताभिधानं च-नोश्रुज्ञानभावकरणं चेत्यर्थः । आह- ननु यथा श्रुतज्ञानं जीवस्य भावस्तथा शेषज्ञानान्यपि विद्यन्ते, ततो मत्यादिज्ञान भावकरणमपि कस्माद् नोक्तम् ? | सत्यम्, किन्तु यथा परायत्तत्वाद् गुरूपदेश दिना श्रुतज्ञानं क्रियते, नैवं शेषज्ञानानि तेषां स्वावरणक्षयोपशम-क्षयाभ्यां स्वत एव जायमानत्वात् । एवं सम्यक्त्वादयोऽपि जीवभावा नैकान्तेन परायत्ताः तेषां नारकादिष्वन्यथा भावादिति । श्रुतज्ञानकरणमपि द्विविधम्-लौकिक लोकोत्तरं च । पुनरप्येकैकं द्विधा - बद्धमबद्धं च । तत्र गद्यपद्यरूपतया रचितं बद्धम् इदं च शास्त्रोपदेशरूपं भवति । यत् पुनरशास्त्रोपदेशरूपं कण्ठादेव श्रूयते, तदबद्धम् । इदं च बद्धमबद्धं चैकैकं द्विधा भवति - शब्दकरणम्, निशीथकरणं चेति ।। ३३५४ ।। ३३५५ ।।
अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाह
उत्ती ओ सद्दकरणं पगासबाढं च सरविसेसो वा । गूढत्थं तु निसीहं रहरससुत्तत्थमहवा जं ॥३३५६ ॥
'उसी ओ सदकरणं ति' उक्तिविशेषः शब्दकरणम्, अथवा, प्रकाशपाठं शब्दकरणम्, यदिवा, उदात्तादिस्वरविशेषः शब्दकरणमुध्यत इति । गूढो गुप्तोऽनवगम्यमानोऽर्थो यस्य तद् गूढार्थं पुनर्निशीथकरणमुच्यते; अथवा, यद् रहस्यसूत्रार्थं तद् निशीथकरणमभिधीयते यथा निशीथाध्ययनम् । रहस्यमप्रकाश्यं सूत्रमर्थश्च यस्य तद् रहस्य सूत्रार्थमिति समासः ।।३३५३ ।।
किं पुनस्तल्लौकिकं लोकोत्तरं चाबद्धश्रुतम् १ इत्याह
१ इह जीवभावकरणं श्रुतकरणं श्रुताभिधानं च । श्रुतकरणं द्विविकल्पं लौकिकं लोकोत्तरं चैव ।। ३३५४ ।। बद्धाबद्धं च पुनः शास्त्राशास्त्रोपदेशभेदात् । एकैकं शब्दनिशीथ करणभेदं ज्ञातव्यम् ।। ३३५५ ।। २ उक्तिस्तु शब्दकरणं प्रकाशगाढं च स्वरविशेषो वा । गूढार्थ तु नैशीथं रहस्यसूत्रार्थमथवा यत् ।। ३३५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १२७८ ॥
www.jainelibrary.org