SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥१२७॥ Jain Educationa Intern अथ भावकरणमाह । भावरस व भावेण व भावे करणं ति भावकरणं ति । तं जीवाजीवाणं पज्जायविसेसओ बहुहा || ३३५१ ॥ भावस्य पर्यायस्य करणं भावकरणम्, भावेन वा करणम्, भावे वा करणं भावकरणम् । तच्च जीवा-जीवानां पर्यायविशेषतः पयायविशेषानाश्रित्य बहुधा बहुभेदं भवतीति ।। ३३५१ ॥ तत्राल्पवक्तव्यत्वादजीवकरणं तावदाह अवरप्पओगजं जं अजीवरूवाइपज्जयावत्थं । तमजीवभावकरणं तप्पज्जायप्पणाविक्खं । ३३५२ ॥ परमयोगाज्जातं परप्रयोगजं न परप्रयोगजमपरप्रयोगजं स्वाभाविकमित्यर्थः । यदपरप्रयोगजं तदजीवभावकरणमिति संबन्धः । कथंभूतम् ? इत्याह- 'अजीवरूवाइपज्जयावस्थं ति' अजीवानामचेन्द्रधनुरादीनां रूपादिपर्याया अजीवरूपादिपर्यायास्त एवावस्था स्वरूपं यस्याजीवभावकरणस्य तदजीवरूपादिपर्यायावस्थम् । परमयोगमन्तरेणैव यदभ्राद्यजीवानां स्वाभाविक रूप-रस-गन्ध-स्पर्शसंस्थानादिपर्यायकरणं तदजीवभावकरणमित्यर्थः । तर्हि द्रव्यवित्रसाकरणादस्य को भेदः १ इत्याशङ्कयाह - ' तपज्जायपणाविक्खं ति ' तेषामजीवानां पर्याया रूपादयस्तत्पर्यायास्तेषामर्पणं प्राधान्येन विवक्षणं तत्पर्यायार्पणं, तस्यापेक्षा यत्र तत् तत्पर्यायार्पणापेक्षम् । इदमुक्तं भवति - पूर्वं द्रव्यप्राधान्यविवक्षया द्रव्य विस्रसाकरणामिदमुक्तं भवति, इह तु रूपादिपर्यायप्राधान्यमपेक्ष्यैतदेव भावकरणमभिहितमिति ।। ३३५२ । इदं च 'तप्पज्जायपणाविक्खं' इत्यनेन दत्तमप्युत्तरमनवगच्छतः परस्य मतमाशङ्कयाह को दव्वीस साकरणओ विसेसो इमरस नणु भणियं । इह पज्जायावेक्खा दव्त्रडियनयमयं तं च ॥३३५३॥ गतार्था ।। ३३५३ ।। १ भावस्य वा भावेन वा भावे करणामिति भावकरणमिति । तज्जीवाजीवानां पर्यायविशेषतो बहुधा ।। ३३५१ ।। २ अपरप्रयोगजं यदजीवरूपादिपर्ययावस्थम् । तदजीवभावकरणं तत्पर्यीयार्पणापेक्षम् ।। ३३५२ ।। १३ को द्रव्यवित साकरणतो विशेषोऽस्य ननु भणितम् । इह पर्यायापेक्षा द्रव्यास्ति कनयमतं तच ।। ३३५३ ।। For Personal and Private Use Only बृहद्वृत्तिः । 11229911 ww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy