SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२७६॥ बवं च बालवं चेव कोलवं तीइलो यणं । गरो हि वणियं चेव विट्ठी हवइ सत्तमा ॥ ३३४८॥ अस्य सप्तविधस्यापि चरस्य करणस्यानयनोपायमाहपैक्खतिहओ दुगुणिया दुरूवरहिया य सुक्तपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं ॥ ३३४९॥ कृष्णस्य शुक्लस्य वा प्रस्तुतपक्षस्य यास्तिथयोऽतिक्रान्तास्ता द्विगुणीक्रियन्ते । ततश्चागतराशेः सप्तभिर्भागो हियते । एवं च कृते यत् करणमागच्छति तत् प्रस्तुततिथौ कृष्णपक्षे दैवसिकं विज्ञेयम्, रूपाधिकं तु तदेव रात्रौ यथा कृष्णदशम्यां द्विगुणितायां विं. शतिर्भवति । ततः सप्तभिभीगे हृते षडवशेषा भवन्ति । तथा चेदं षष्ठं वणिजभिधानं दैवसिकं करणं कब्धम्, रूपे तत्र प्रक्षिप्ते रात्रिगतं विष्ट्यभिधानं सप्तमं करणं लभ्यते । एवमन्यत्रापि कृष्णपक्षे द्रष्टव्यम् । शुक्लपक्षे विशेषमाह-'दुरूवरहिया य सुक्तपक्खम्मि त्ति' शुक्लपक्षे द्विगुणिततिथिराशेद्वौं पात्येते, ततो देवसिकं करणमागच्छति, रूपाधिकं तु रात्रिगतं भवति; यथा शुक्लचतुर्थ्यां द्विगुणितायामष्टौ भवन्ति, द्वयोश्च पातितयोः षड् भवन्ति, सप्तभिश्च भागो न पूर्यते, ततस्तदेव दैवसिकं षष्ठं करणं लब्धम्, रूपे तु प्रक्षिप्त सप्तमं विष्थ्यभिधानं रात्रिगतं करणं लभ्यते । एवमन्यत्रापि शुक्लपक्षे भावनीयम् । इह च लोकप्रसिद्धकरणानयनोपायोऽन्योऽपि विद्यते, तद्यथा"तिहि दुगुणी, एकिहिं ऊणी, सत्चहिं हरणं, सेसं करणं" इति । अयमपि युक्तः, केवलमिह मास तिथयो द्विगुणयितव्याः, यच्चेहागच्छति तद् रात्रिकरणम्, रूपे तु पातिते दिवसगतं द्रष्टव्यमिति ॥ ३३४९ ॥ ___ अथ चतुर्विधं स्थिरकरणमाहसउणि चउप्पय नागं किंसुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणं सेसं तियं कमसो ॥३३५०॥ कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं करणं भवति, अमावास्यायां दिवसे चतुष्पदम, रात्रौ नागम्, प्रतिपदि दिवा किंस्तुघ्नम् । शेषरजनी दिनयोर्यथोक्तोपायतश्चरं करणमवसेयमिति ॥ ३३५० ॥ १ ववं च बालवं चैव कौलवस्तैतिलश्च । गरो हि वणिजश्चैव विष्टिर्भवति सप्तमी ।। ३३४८ ॥ २ पक्षतिथयो द्विगुणिता द्विरूपरहिताश्च शुक्लपक्षे । सप्तहृते देवसिकं तदेव रूपाधिकं रात्रौ ॥ ३३४९ ।। ३ तिथिर्द्विगुणा, एकेनोना, सप्तभिर्हरणं, शेष करणम् । ४ शकुनिश्चतुष्पादो नागः किंस्तुनश्च करणं स्थिरं चतुर्धा । बहुलचतुर्दशीरात्री शकुनिः शेष त्रिकं क्रमशः ॥ ३३५० ।। ॥१२७६॥ ....४ For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy