________________
विशेषा०
11875011
Jain Education Int
-वय-काय करिया पन्नरसविहा उ जुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ||३३६०॥
सत्यादिभेदतश्चतुर्विधं मनः, चतुर्विधं वचनम्, औदारिकामिश्रादिभेदात् सप्तविधः काय इत्येवमेतत्क्रियापि पञ्चदशविधा योजन - करणत्वेनावगन्तव्या । तदेवमवसितं भावकरणम् । तदवसाने चोक्तं नामादिभेदतः पद्विधमपि करणमिति । अथ विनेयः पृच्छतिननूक्तस्वरूपाणां नामादीनां षण्णां करणभेदानां मध्ये सामायिककरणमिदं किं भवेत् ? - कस्मिन् भेदेऽवतरेत् ? इत्यर्थः ॥ ३३३० ||
अत्र गुरुराह -
सेव्वं पि जहाजोगं नेयं भावकरणं विसेसेणं । सुयबद्ध - सद्दकरणं सुयसामाइयं न चारितं ॥ ३३६१ ॥
इदं सामायिककरणं सर्वमपि षड्विधमपि नामादिकरणं ज्ञेयम् - सर्वेष्वपि नामादिभेदेष्ववतरेदित्यर्थः । कथं १ यथायोगं यथासंभवम् । तत्र सम्यक्क- श्रुत- तपः संयमादिगुणानां जीवद्रव्यपर्यायत्वात् पर्यायस्य च द्रव्यानन्यत्वाद् द्रव्यकरणमिदं भवत्येव । एवं नामादिकरणताप्यस्य यथासंभवं भावनीया । भावकरणं त्विदं विशेषतो भवति, सम्यक्त्वादिसामायिकानां जीवभावत्वादिति । आह- ननु भावकरणं पूर्व बहुभेदमुक्तम्, तत् किं सर्वेष्वपि भावकरणभेदेषु सर्वमपि सामायिकमवतरति । नेत्याह- 'सुएत्यादि ' श्रुतकरणं, तथा बद्धश्रुतकरणं, शब्दकरणं च श्रुतसमायिकमेव भवति, तस्यैवैतद्भेदरूपताघटनात् न तु चारित्रसामायिकम् तस्यैतद्रूपासंभवादिति ।। ३३६१ ॥
चारित्रसामायिकं तर्हि कस्मिन् भावकरणभेदेऽवतरति ? इत्याह
गुणकरणं चारितं तव संजमगुणमयं ति काऊणं । संभवओ सुयकरणं सुपसत्थं जुंजणाकरणं ॥ ३३६२ ॥ कयाकयं केण कथं केसु व दव्वेसु कीरई वावि । काहे व कारओ नयओ करणं कइविहं कहं व ? ॥३३६३॥
१ मनो-वचन-कायक्रिया पश्चदशविधा तु योजनाकरणम् । सामायिककरणमिदं किं नामादीनां भवेत् ।। ३३६० ।।
२ सर्वमपि यथायोगं ज्ञेयं भावकरणं विशेषेण । श्रुत-बद्ध-शब्दकरणं श्रुतसामायिकं न चारित्रम् ।। ३३६१ ।।
३ गुणकरणं चारित्रं तपः- संयमगुणमयमिति कृत्वा । संभवतः श्रुतकरणं सुप्रशस्तं योजनाकरणम् ||३३६२ ।। कृताकृतं केन कृतं केषु वा द्रव्येषु क्रियते वापि । कदा वा कारको नयतः करणं कतिविधं कथं वा ? ।। ३३६३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२८०॥
www.jainelibrary.org