SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२१४॥ अथाजीवप्रयोगकरणमभिषित्सुराहअजीवाणं करणं नेयं पड-संख-सगड-थूणाणं । संघायण-पडिसाडणमुभयं तह नोभयं चेव ॥ ३३४१ ॥ अजीवानां करणं ज्ञेयम् । किं तत् ? इत्याह-संघातनं तन्तूनां पटे, परिशाटनमेव केवलं श्लक्षीकरणं शङ्खस्य, उभयं संघात-परिशाटलक्षणं तक्षण-कीलिकादियोगात् शकटस्य, 'नोभयं ति' संघात-परिशाटोभयनिषेधः स्थूणायाः, केवलोलकरणादिभावेन तदभावादिति ।। ३३४१ ॥ एवमन्यदपि यजीवप्रयोगादजीवानां क्रियते तत् सर्वमजीवकरणमिति दर्शयन्नाह - जें जं निज्जीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाई रूव-कम्माई वावि तदजीवकरणं ति ॥ ३३४२ ॥ एवं यद्यदजीवानां वस्त्र काष्ठ-पाषाणादीनां जीवप्रयोगाजीवव्यापारेण कुसुम्भ-मनिष्ठादिभिर्वर्णादि क्रियते, पुत्तलिकादिकं रूपकर्मादि विधीयते, तत् सर्वमजीवकरणमिति । तदेवमुक्तं द्रव्यकरणम् ॥ ३३४२ ॥ अथ क्षेत्रकरणमभिधित्सुराहइह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तम् । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥३३४३॥ होज व पज्जायाओ पन्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लोए सालिकरणाई ॥३३४॥ खेत्ते व जत्थ करणं ति खित्तकरणं तयं जहा सिद्धं । खित्तं पुण्णमिणं पुण्णकरणसंबंधमत्तेणं ॥ ३३४५॥ व्याख्या-इह द्रव्यमेव सद् नभः क्षेत्रं भण्यते । कृत इत्याह-'निवासेत्यादि' मात्रशब्दस्य व्यवहितः प्रयोगः, निवासपर्यायभावमात्रत इत्यर्थः । इदमुक्तं भवति-क्षि निवास-गत्योः' इति 'क्षियन्ति निवसन्ति जीवा अजीवाश्चात्र' इत्यौणादिके प्रत्यये क्षेत्रम्, १ अजीवानां करणं ज्ञेयं पट-शङ्ख-शकट-स्थूणानाम् । संघातन-परिशाटनमुभयं तथा नोभयं चैव ।। ३३४१ ॥ २ यद् यद् निर्जीवानां क्रियते जीवप्रयोगतस्तत तत् । वर्णादि रूपकर्मादि वापि तदजीवकरणमिति ॥ ३३४२ ॥ ३ इह द्रव्यमेव निवासमाजपर्यायभावत: क्षेत्रम् । भण्यते नभो न तस्य च करणं निवृत्तितोऽभिहितम् ।। ३३४३ ॥ अवेद् वा पर्यायात पर्यायो येन द्रव्यतोऽनन्यः । उपचारमात्रता वा यथा लोके शालिकरणादि ॥ ३३४४ ॥ क्षेत्रे वा यत्र करणमिति क्षेत्रकरणं तदू यथा सिद्धम् । क्षेत्रं पुण्यमिदं पुण्यकरणसंबन्धमात्रेण ।। ३३४५ ॥ ॥१२७४॥ Jan E ine For Personal and Price Use Only T ww.jainabrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy