________________
॥१२७३॥
आहारकशरीरसंघातः परिशाटश्च प्रत्येकं सामयिको भवति । स च सुगमत्वाद् गाथायां न लिखितः स्वयमेव तु द्रष्टव्य इति । विशेषा ० संघात परिशाटोभयकालस्तु द्विविधः - उत्कृष्टतो जघन्यतश्च | संघात - परिशाटोभयानां यदन्तरत्रिकमन्तरकालत्रयं जघन्यम्, तदेतत् सर्वमन्तर्मुहूर्त कालमानमवगन्तव्यम्ः केवलं तदेवान्तर्मुहूर्त लघु बृहच्च तारतम्येनावसेयमिति । आहारकशरीरं ह्यन्तर्मुहूर्त कालस्थितिकमेव भवति ; अतस्तत्संबन्धिनः संघात परिशाटोभयस्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तकालभावित्वं सिद्धमेवेति । एकदा कृतं चाहारकशरीरं प्रयोजनसिद्धौ परित्यज्य चतुर्दशपूर्वधरो जघन्यतोऽन्तर्मुहूर्तात् पुनरप्युत्पन्न - प्रयोजनस्तत् करोति, अतस्तद्गतसंघात परिशाभयानां भवति जघन्यमन्तर्मुहूर्त्तमिति । उत्कृष्टं त्वन्तरं त्रयाणामपि संघात परिशाटो भयानां किञ्चिन्न्यूनार्ध पुद्गलपरावर्तरूपं भवति । इदं च यच्चतुर्दशपूर्वधर आहारकशरीरं कृत्वा प्रमादात् प्रतिपतितो वनस्पत्यादिषु यथोक्तकालं स्थित्वा पुनरपि चतुर्दश पूर्वधरत्वमवाप्याहारकशरीरं करोति तस्य द्रष्टव्यमिति ।। ३३३८ ।।
अथ तैजस-कार्मणविषयं संघातादिविचारं चिकीर्षुराह -
Jain Education Inte
'तेया-कम्माणं पुण संताणोऽणाइओ न संघाओ । भव्त्राण होज्ज साडो सेलेसीचरिमसमयम्मि || ३३३९ ॥ उभयमणाइ-निहणं संतं भव्वाण होज केसिंचि । अंतरमणाइभावा अच्चतविओगओ सिं ॥ ३३४० ॥
व्याख्या - तैजस- कार्मणयोः पुनः संघातस्तावद् न भवत्येव, तयोरनादिकालात् संतानेन प्रवृत्तत्वात् संघातस्य तु गृह्यमाणशरीरमथमसमयविषयत्वादिति प्रागप्युक्तम् । सर्वपरिशाटोऽपि तैजस-कार्मणयोरभव्यानां न भवत्येव तस्य त्यज्यमानशरीरविषयत्वात्, तेषां च तत्र्यागासंभवात् । भव्यानां तु केषाञ्चित् शैलेशी चरमसमये भवेत् शाटः । स च सामयिको द्रष्टव्यः । उभयं तु संघात परिशाटलक्षणम्, आदिश्च निधनं चादि-निधने, न विद्येते आदि-निधने यस्य तदनादि निधनमेवाभव्यानां भवति, तत्यागाभावात् । भव्यानां तु केषाञ्चित् सिद्धिगमनसमये सान्तमुभयं भवेत्, तदानीं सर्वथा तत्यागादन्तरं 'सिं ति' एतयोर्न भवत्येव, अभव्यानामनादिनिधनत्वात् तयोः, भव्यानां तु सनिधनत्वेऽप्यत्यन्तवियोगेन त्यागात् पुनस्तग्रहणाभावात् त्यक्तस्य पुनर्ग्रहणे चान्तरकालसंभवादिति । ३३३९ ।। ३३४० ।। संघात परिशाटवक्तव्यता समाप्ता || तदेवमुक्तं सज्जीवप्रयोगकरणम् ॥
१६०
१ तैजस-कार्मणयोः पुनः संतानोऽनादिको न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ।। ३३३९ ।। भयमनादि-निधनं सान्तं भव्यानां भवेत् केषाञ्चिदपि । अन्तरमनादिभावादत्यन्तवियोगतो नैतयोः ॥ ३३४० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ॥
॥१२७३॥
www.jainelibrary.org