SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ . . विशेषा ॥१२२२॥ उभयस्य वैक्रियस्य संबन्धिनः संघात परिशाटलक्षणस्य 'समय एको जघन्यमन्तरं भवति' इत्यध्याहारः । कस्य जन्तोरिदम बृहद्वृत्तिः । | वाप्यते ? इत्याह-चिरमन्तर्मुहूर्तमानं कालं विकुर्व्य वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः संघातसमयोऽन्तरे प्राप्य| ते । अयमत्र भावार्थः-य औदारिकशरीरी वैक्रियलब्धिमानुपकल्पितक्रियशरीरः परिपूर्ण तिर्यग्मनुष्यवैक्रियस्थितिकालं यावत् संघात-परिशाटौ विधाय म्रियते, अविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रियसंघातं करोति, द्वितीयादिसमयषु तु संघात-परिशाटी, तत्संबन्धिन उभयस्य चान्तरे स एवोक्तः संघातसमयो भवतीति । ननु यद्येवम्, 'चिर विउन्धिय मयस्स' इत्यत्र चिरग्रहणमपार्थकम्, इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रियसंघात-परिशाटौ कृत्वाविग्रहेण दिवि समुत्पद्यते, तेनैव प्रयोजनम्, किं चिर. शब्दविशेषणेन ? । सत्यम्, किन्तु प्रथमसमये मरणनिषेधार्थमित्यमुक्तम् । यदिवाऽनन्तरं वैक्रियसंघातान्तरं भावयता समयोजनत्वाद् द्वितीयादिसपयेष्वाकस्मिकसमाप्तक्रियस्यापि मरणमुक्तम्, अत्र त्वसमाप्तवैक्रियस्यापि मरणोपदर्शनेन किश्चित् प्रयोजनमिति ख्यापनार्थ चिरग्रहणेन परिपूर्णान्तर्मोहूर्तिकमनुष्यादिवैक्रियस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः । 'साडस्सान्तमुहुत्तं ति' एकदा वैक्रियसर्वशाटं कृत्वा पुनरपि तत्सर्वशाटं कुर्वतोऽन्तर्मुहूर्त जघन्यमन्तरं भवति । कथमिति चेत् । उच्यते - कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कचित् प्रयोजने वैक्रियशरीरं कृत्वा सर्वकार्यपर्यन्ते तस्य सर्वपरिशाट विधाय पुनरौदारिकशरीरमाश्रयति । तत्र चान्तर्मुः ।। हूत स्थित्वा पुनरप्युत्पन्नमयोजनो वैक्रियं करोति, अन्तर्मुहूर्त च तत्र स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य सर्वशाट करोति । एवं च सति वैक्रियशरीरशाटस्य (१) चान्तरे औदारिक-वैक्रियशरीरगतमन्तर्मुहूर्तद्वयं भवति । अनेन चान्तर्मुहूर्तद्वयेनापि बृहत्तरमेकमेवान्तर्मुहूर्त विवक्षितम् । अतो युज्यते जघन्य वैक्रियशाटान्तरमन्तर्मुहूर्तमिति । तदेवं वैक्रियसंघातोभयशाटानां जघन्योऽन्तरकाल उक्तः। अथ त्रयाणामप्येतेषामुत्कृष्टमन्तरकालमाह-'तिण्ह वीत्यादि' इह यदा कश्चिज्जीवो वैक्रियशरीरस्य संघातादित्रयं कृत्वा वनस्पतित्पद्यते, तत्र चानन्तकालमतिबाह्य तत उद्धृतः पुनरपि कचिद् वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति, तदा तत्संबन्धिनः संघात-परिशाटो. मयकक्षणस्य त्रयस्यापि स एवानन्तोत्सर्पिण्यवसर्पिणीरूपो वनस्पतिकालोऽन्तरे भवतीति ।। ३३३७ ।। अथाहारकशरीरसंघात-परिशाट-तदुभयानां कालोऽन्तरं च वक्तव्यम्, तत्राहआहारोभयकालो दुविहोऽन्तरंतियं जहन्नं ति । अंतोमुहुत्तमुक्कोसमद्धपरियट्टमूणं च ॥ ३३३८ ॥ ॥१२७२॥ १ आहारकोभयकालो द्विविधाऽन्तरात्रिकं जघन्यमिति । अन्तर्मुहूर्तमुत्कृष्टमर्धपरावर्त ऊनश्च ॥ ३३३८ ।। Jan Edmont For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy