________________
.
.
विशेषा
॥१२२२॥
उभयस्य वैक्रियस्य संबन्धिनः संघात परिशाटलक्षणस्य 'समय एको जघन्यमन्तरं भवति' इत्यध्याहारः । कस्य जन्तोरिदम
बृहद्वृत्तिः । | वाप्यते ? इत्याह-चिरमन्तर्मुहूर्तमानं कालं विकुर्व्य वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः संघातसमयोऽन्तरे प्राप्य| ते । अयमत्र भावार्थः-य औदारिकशरीरी वैक्रियलब्धिमानुपकल्पितक्रियशरीरः परिपूर्ण तिर्यग्मनुष्यवैक्रियस्थितिकालं यावत् संघात-परिशाटौ विधाय म्रियते, अविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रियसंघातं करोति, द्वितीयादिसमयषु तु संघात-परिशाटी, तत्संबन्धिन उभयस्य चान्तरे स एवोक्तः संघातसमयो भवतीति । ननु यद्येवम्, 'चिर विउन्धिय मयस्स' इत्यत्र चिरग्रहणमपार्थकम्, इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रियसंघात-परिशाटौ कृत्वाविग्रहेण दिवि समुत्पद्यते, तेनैव प्रयोजनम्, किं चिर. शब्दविशेषणेन ? । सत्यम्, किन्तु प्रथमसमये मरणनिषेधार्थमित्यमुक्तम् । यदिवाऽनन्तरं वैक्रियसंघातान्तरं भावयता समयोजनत्वाद् द्वितीयादिसपयेष्वाकस्मिकसमाप्तक्रियस्यापि मरणमुक्तम्, अत्र त्वसमाप्तवैक्रियस्यापि मरणोपदर्शनेन किश्चित् प्रयोजनमिति ख्यापनार्थ चिरग्रहणेन परिपूर्णान्तर्मोहूर्तिकमनुष्यादिवैक्रियस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः । 'साडस्सान्तमुहुत्तं ति' एकदा वैक्रियसर्वशाटं कृत्वा पुनरपि तत्सर्वशाटं कुर्वतोऽन्तर्मुहूर्त जघन्यमन्तरं भवति । कथमिति चेत् । उच्यते - कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कचित् प्रयोजने वैक्रियशरीरं कृत्वा सर्वकार्यपर्यन्ते तस्य सर्वपरिशाट विधाय पुनरौदारिकशरीरमाश्रयति । तत्र चान्तर्मुः ।। हूत स्थित्वा पुनरप्युत्पन्नमयोजनो वैक्रियं करोति, अन्तर्मुहूर्त च तत्र स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य सर्वशाट करोति । एवं च सति वैक्रियशरीरशाटस्य (१) चान्तरे औदारिक-वैक्रियशरीरगतमन्तर्मुहूर्तद्वयं भवति । अनेन चान्तर्मुहूर्तद्वयेनापि बृहत्तरमेकमेवान्तर्मुहूर्त विवक्षितम् । अतो युज्यते जघन्य वैक्रियशाटान्तरमन्तर्मुहूर्तमिति । तदेवं वैक्रियसंघातोभयशाटानां जघन्योऽन्तरकाल उक्तः। अथ त्रयाणामप्येतेषामुत्कृष्टमन्तरकालमाह-'तिण्ह वीत्यादि' इह यदा कश्चिज्जीवो वैक्रियशरीरस्य संघातादित्रयं कृत्वा वनस्पतित्पद्यते, तत्र चानन्तकालमतिबाह्य तत उद्धृतः पुनरपि कचिद् वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति, तदा तत्संबन्धिनः संघात-परिशाटो. मयकक्षणस्य त्रयस्यापि स एवानन्तोत्सर्पिण्यवसर्पिणीरूपो वनस्पतिकालोऽन्तरे भवतीति ।। ३३३७ ।।
अथाहारकशरीरसंघात-परिशाट-तदुभयानां कालोऽन्तरं च वक्तव्यम्, तत्राहआहारोभयकालो दुविहोऽन्तरंतियं जहन्नं ति । अंतोमुहुत्तमुक्कोसमद्धपरियट्टमूणं च ॥ ३३३८ ॥
॥१२७२॥ १ आहारकोभयकालो द्विविधाऽन्तरात्रिकं जघन्यमिति । अन्तर्मुहूर्तमुत्कृष्टमर्धपरावर्त ऊनश्च ॥ ३३३८ ।।
Jan Edmont
For Personal and Price Use Only