________________
विशेषा०
॥१२१९॥
Jain Education inte
कृत्वा मृतो द्वितीयसमये निर्विग्रहेण ऋजुगत्या सुरेषु व्रजति । तत्र च प्रथमसमये वैक्रियस्य संघातं करोति । तस्यैको वैक्रिय संघात - समयोऽत्रत्यः, द्वितीयस्तु देवसंबन्धीति ।। ३३३४ ।।
अथ वैक्रियस्यैव जघन्यमुत्कृष्टं च संघातपरिशाटोभूय काळमाह -
उभयजहन्नं समओ सो पुण दुसमयवि उव्वियमयस्स । परमयराई संघायसमयहीणाई तेत्तीसं ॥ ३३३५ ॥
वैक्रिय संघात परिशाटोभयं जघन्यतः समयो भवति । स च समयद्वयं वैक्रियं कृत्वा मृतस्य द्रष्टव्यः । इदमुक्तं भवति -केनचिदौदारिकशरीरिणोत्तर वैक्रियमारब्धम् । स च तत्र प्रथमसमये संघातम्, द्वितीयसमये तु संघातपरिशाटोभयं कृत्वा यदा म्रियते तदा तस्य संघात परिशाटोभयस्य समयलक्षणो जघन्यकाल : प्राप्यत इति । परमुत्कृष्टमुभयं स्वस्थितिमानं तरीतुं लङ्घयितुमशक्यान्यतराणि सागरोपमाण्येकेन संघातसमयेन हीनानि त्रयस्त्रिंशदनुत्तर सुरेष्वप्रतिष्ठाननरके वा बोद्धव्यानीति । तदेवं वैक्रिय संघातस्यो - भयस्य च काल उक्तः, परिशाटनस्य त्वेकसमयलक्षणः कालः स्वयमेव द्रष्टव्यः ।। ३३३५ ।।
अथ वैक्रियसंघातस्य जघन्यमन्तरकालमाह -
संघायंतरसमओ समय विउव्वियमयरस तइयम्मि । सो दिवि संघाययओ तइए व मयस्स तइयम्मि ||३३३६ ||
वैक्रिय संघातस्य च जघन्यमन्तरं समयो भवति । स चौदारिकशरीरिणः समयमेकमुत्तरवेक्रियं कृत्वा मृतस्य द्वितीयं समयं विहे विषाय तृतीयसमये दिवि देवलोके संघातयतो वैक्रियशरीरसंघातं कुर्वतो विज्ञेयः । अत्र हि प्राक्तनोतर वैक्रिय संघातस्य देववैक्रियसंघातस्य च विग्रहसमयोऽन्तरं भवति । अथवा, तस्यौदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्र हेण च दिवि समुत्पन्नस्य तस्मिन्नेव तृतीयसमये देववैक्रियसंघातं कुर्वत एकः संघात - परिशाटोभयसमयः संघातान्तरं भवतीति । ३३३६ ।।
अथ वैक्रिय संघात - परिशाटोभयस्य शाटस्य च जघन्यमन्तरकालमाह -
उभयस्स चिर विउविजय मयस्स देवेसु विग्गहगयस्स । साडस्संतमुहुत्तं तिन्ह वि तरुकालमुक्कासं ॥ ३३३७॥
१ उभयजघन्यं समयः स पुनर्द्विसमयविकुर्वितमृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् ।। ३३३५ ।।
२ संघातान्तरसमयः समयविकुर्वितमृतस्य तृतीये । स दिवि संघातयतस्तृतीये वा मृतस्य तृतीये ।। ३३३६ ॥ ३ उभयस्य चिरं विकुर्व्य मृतस्य देवेषु विप्रगतस्य । शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुत्कृष्टम् || ३३३७ ॥
For Personal and Private Use Only
| बृहद्वृत्तिः ।
॥१३१९॥
www.jainelibrary.org