________________
विशेषा०
बृहदत्तिः ।
॥१२७०॥
ग्रहणस्यादिसमये प्राक्तनौदारिकशरीरस्य सर्वशाटं करोति, ततः क्षुलुकभवग्रहणपर्यन्ते मृतः पुनरपि परभवाद्यसमये औदारिकस्य सर्व शार्ट विधत्ते, इत्येवमोदारिकशाटस्यावान्तरे जघन्यतः समयोनं क्षुल्लकभवग्रहणं प्रामोति, उत्कृष्टपक्षऽपि संयतमनुष्यः कश्चिद् मृतो देवभवाद्यसमये औदारिकस्य सर्वशाट कृत्वा त्रयस्त्रिंशत्सागरोपमाण्यनुत्तरसूरेष्वायुरतिवाह्य पूर्वकोट्यायुष्केषु मनुष्येषूत्पद्य मृतो यदा पुनरपि परभवाद्यसमय औदारिकस्य सर्वशाट करोति, पूर्वकोटिमध्याच समयो देवभवायुष्के क्षिप्यते, तदौदारिकस्य शाटस्यावान्तरे उत्कृ. टतः समयोनपूर्वकोव्यधिकानि त्रयस्त्रिंशत् सागरोपमाणि लभ्यन्ते, ततः कथमिदं नेतव्यम् ? इति। सत्यमुक्तम्, किन्त्विह क्षुल्लकभवग्रहणाघसमये परिशाटो नेष्यते, किन्तु पूर्वभवचरमसमये 'विगच्छद् विगतम्' इति व्यवहारनयमताश्रयणाद् देवभवाद्यसमयेऽपि परिशाटो न क्रियते, किन्तु संयतचरमसमये, अत्रापि व्यवहारनयमताश्रयणात् तत एव जघन्यपदे उत्कृष्टपदे चादी व्यवहारनयमताश्रयणे, पर्यन्ते तु निश्चयनयमताङ्गीकारे सर्वमपि भाष्यकारोक्तमविरोधेन गच्छतीति वृद्धा व्याचक्षते, तत्त्वं तु गम्भीरभाषितानां परमगुरव एव विदन्ति । तदेवमौदारिकसंघात-परिशाटोभयानां कालोऽन्तरं चोक्तम् ॥ ३३३२ ।।
अथ वैक्रियशरीरस्य जघन्यं संघातकाळमाहवेउब्वियसंघाओ समओ सो पुण विउव्वाईए । ओरालियाणमहवा देवाईणाइगहणम्मि ॥३३३३॥
वैक्रियशरीरस्य संघातो जघन्यत एकसमयः, स च 'ओरालियाणं ति' औदारिकशरीरिणामुत्तरवैक्रियकन्धिमतां तिर्यग्मनुष्याणां विकुर्वणमुत्तरवैक्रियकरणं तस्यादिर्विकुर्वणादिस्तस्मिन् विज्ञयः-तिरश्चो मनुष्यस्य बोत्तरवैक्रियं कुर्वत एकस्मिन् प्रथमसमये संघातो भवतीत्यर्थः । अथवा, देवादीनां देव-नारकाणां वैक्रियशरीरग्रहणस्यादावेकस्मिन् समये संघातो भवतीति ॥ ३३३३।। __ अथोत्कृष्ट वैक्रियसंघातकाळमाहउकोसो समयदुगं जो समयं विउविउं मओ बिइए । समए सुरेसु वच्चई निविग्गहओ तयं तस्स ॥३३३४॥ उत्कृष्टसंघातकाल: समयद्वयं भवति । 'तयं तस्स ति' तच्च समयद्वयं तस्य भवति य औदारिकशरीरी समयमेकमुत्तरक्रिय
१ वक्रियसंघातः समयः स पुनर्विकुर्वणादौ । औदारिकाणामथवा देवादीनामादिग्रहण ॥ ३३३३ ॥ २ उत्कृष्टः समयद्विकं यः समयं विकुळ मृतो द्वितीये । समये सुरेषु व्रजति निर्विप्रइतस्तत् तस्य ।। ३३३४ ॥
॥१२७०।
For Personal
Use Only