________________
विशेषा०
वृहद्वीतः।
॥१२४५||
समानसेवकानामपि विषमफलदः केषाश्चिद् विफलश्च दृश्यते राजा । ततो ज्ञायते-स्वकृतपुण्य-पापकृतमेवेदं सर्वमपि वैचित्र्यम् , राजादिस्तु तत्र निमित्तमात्रमेवेति । अपरं च, लोकेऽपि भण्यते लोकेऽप्येवं वक्तारो भवन्ति- 'सुकृतपुण्यः स देवदत्तादिः 'तो से ति' ततः 'से' तस्यैव राजप्रसादो जातः' इति । तत एतमादिलोकोक्तेश्च स्वकृतपुण्य-पापानुमान प्रवर्तत इति ॥ ३२५२ ॥
अपि च,
कोवप्पसायहेउं च जं फलं नहि तदत्थमारंभो । न परप्पसायणत्थं किन्तु निययप्पसायत्थं ॥ ३२५३ ॥
कोप-प्रसाद हेतुकं च यत् किमपि फलं तदथों नैवायमस्माकमर्हदादिनमस्कारपूजारम्भः, नापि परप्रसादनार्थम् , किन्तु निजकचित्तस्य यः प्रसादः प्रसत्तिरहंदादिगुणबहुमानेन शुभरूपता तदर्थो-ऽयमारम्भ इति ॥ ३२५३ ॥
परप्रसादनार्थ नारम्भ इत्याहधेम्मा-ऽधम्मान परप्पसाय-कोवाणुवत्तिणो जम्हा । तो न परो त्ति पसण्णो धम्मो कुविउत्ति वाऽधम्मो ॥३२५४॥
धर्मार्थो ह्ययमारम्भः। धर्मा-ऽधौं च यस्माद् न परप्रसाद-कोपानुवर्तिनी, किं तर्हि ?, जीवगतशुभा-ऽऽशुभपरिणामानुयायिनौ । ततः 'परः प्रसन्नः' इत्येतावता न धर्मः, नापि 'परः कुपितः' इत्येतावन्मात्रेणाधर्मः, किन्तु निजशुभा-ऽशुभपरिणामवशाद् धर्मा-धो । तत्र च शुभा-ऽशुभ-परिणामस्यालम्बनमहदादादयो नमस्क्रियमाणाः संपद्यन्ते । शुभपरिणामाच्च धर्मः । तस्माच्चार्थकामादयः, स्वर्गा-ऽपवर्गों च भवतः । इति संपद्यत एवाईनमस्कारस्य यथोक्तं फलमितीह तात्पर्यमिति ॥ ३२५४ ॥
यदि परप्रसाद कोपानुवर्तिनौ धर्मा-धर्मों स्याताम् , ततः को दोषो भवेत् ? इत्याह-- तैस्साहणसुण्णस्स वि जइवा धम्मो परप्पसायाओ । तो जो जस्स पसन्नो स तस्स दिज्जा जगद्धम्म॥३२५५॥
१ कोपप्रसादहेतु च यत् फलं नहि तदर्थ आरम्भः । न परप्रसादनार्थ किन्तु निजकप्रसादार्थम् ॥ ३२५३ ॥ २ धर्मा-ऽधौं न परप्रसाद-कोपानुवर्तिनौ यस्मात् । ततो न पर इति प्रसन्नो धर्मः कुपित इति वाऽधर्मः ॥ ३२५४ ॥ ३ तत्साधनशून्यस्यापि यदिवा धर्मः परप्रसादात् । ततो यो यस्य प्रसन्नः स तस्य दद्याज्जगद्धर्मम् ॥ ३२५५ ॥
॥१२४५॥
Jan Edo
Internat
For Personal and Price Use Only
TOPlww.jainelibrary.org