________________
विशेषा०
॥१२६६॥
Jain Educators in
भो निश्चयनयवादिन् ! यदि परभवप्रथमसमये शाटोऽभ्युपगम्यते, निर्विग्रहतश्च ऋजुश्रेण्या चोत्पद्यमानस्य तस्मिन्नेव समये संघात इष्यते, तदा नन्वहो सर्वशाटसंघात युगपदेकस्मिन्नेव समये विरुद्धौ तौ प्राप्नुतः, सर्वशाटस्य पूर्वभवशरीरसंबन्धित्वात् सर्वसंघातस्य च भवान्तरगतशरीरविषयत्वात्, भवद्भयशरीरयोश्च युगपत्सत्त्वस्य दुरविरुद्धत्वादिति ॥ ३३२१ ॥
_ निश्चयनयवादी प्रतिविधानमाह
जम्हा विगच्छमाणं वियं उप्पज्जमाणमुप्पण्णं । तो परभवाइसमए मुक्खा दाणाण न विरोहो ॥३३२२॥
यस्मात् पूर्वभवशरीरं परभवाद्यसमये विगच्छद् विगतम्, उत्पद्यमानं स्वग्रेतनभवशरीरमुत्पन्नम्, क्रियाकाल निष्ठाकालयो रभेदात् । ततस्तत्र मोक्षा-ऽऽदानयोरिष्यमाणयोर्न कश्चिद् विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनभवशरीरस्य तत्र सद्भावादिति ।। अपि च, मरणसमयः परभवाद्यसमयत्वेनाभ्युपगन्तव्य एव, अन्यथा दोषसंभवादित्याह
चुइसमए नेहभवो इहदेहविमोक्खओ जहाऽतीए । जइ न परभवो वि तहिं तो सो को होउ संसारी?॥३३२३॥
च्युतिसमये इहभवशरीरा ऽऽयुः पुद्गल सर्वपरिशाटसमये तावदिहभवो न भवति इहभवदेहस्यायुषश्च मुच्यमानत्वात् मुच्य मानस्य च सर्वथा विमोक्षात्, क्रियाकाल-निष्ठाकालयोरभेदादिति । 'जहात्तीए त्ति' यथाऽतीतजन्मनहिभवो नास्ति, अत्रत्यदेहाभावात्, तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहा भावस्याविशेषादित्यर्थः । एवं च सति यदि यस्मिंश्च्युतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु, इहभवत्वस्य भवद्युक्तित एव निषेधात्, परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् ? । संसारित्वेन च मुक्तव्यपदेशाभावाद् निर्व्यपदेश एवासौ स्यादिति ।। ३३२३ ।।
व्यवहारनयवादी प्राह
नै जह विग्गहकाले देहाभावे वि परभवग्गणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥३३२४॥ ननु यथा विग्रहका विग्रहेण परभवगमनकाले पारभविकदेहाभावेऽपि जीवस्य परभवग्रहणं नारकादिपारभविकव्यपदेशः,
११ यस्माद् विगच्छद् विगतमुत्पद्यमानमुश्पन्नम् । ततः परभवादिसमये मोक्षा-ऽऽदानयोर्न विरोधः ।। ३३२२ ।।
२ युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीते । यदि न परभवोऽपि तर्हि ततः स को भवतु संसारी ? ।। ३३२३ ।। ३ ननु यथा विग्रहकाले देहाभावेऽपि परभवमहणम् । तथा देहाभावेऽपि भवेदिह भवाऽपि को दोष: ? ।। ३३२४ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२६६॥
www.jainelibrary.org