________________
बृहदतिः ।
तथा च्युतिसमयेऽपीहभवशरीराभावेऽपीहभवोऽपि यदि भवेत्- इहव्यपदेशोपि यदि स्यात्, तर्हि को दोषः-न कश्चित् , न्यायस्य विशेषा०88 समानत्वादिति ॥ ३३२४ ॥ ॥१२६॥
निश्चयवादी प्रतिविधानमाहजै चिय विग्गहकालो देहाभावे वि तो परभवो सो। चुइसमए उ न देहो न विग्गहो जइस को होउ ?॥३३२५॥
हन्त ! यत एवापान्तरालगतो जीवस्य विग्रहकालो न तु पूर्वभवकालः, तत एव देहाभावेऽप्यसौ परभवः परभवसंबन्धित्वेन | व्यपदेश्यः, परभवायुष उदीर्णत्वात्, पूर्वभवायुषस्तु प्रागेव निर्णत्वात्, निरायुषश्च जीवस्य संसारेऽसंभवादिति । च्युतिसमये तु न पूर्वभवदेहः, तस्य त्यक्तत्वात नापि विग्रहः, वक्राभावात् । ययेवम्, तर्हि स ब्युतिसमय इहत्य-पारभविकभवसमयानां मध्यात् को भवतु ? इति कथ्यताम् । ननु प्रोक्तं मया, यथा विग्रहकाके परभवदेहाभावेऽपि परभवस्तथा च्युतिसमये इहत्यदेहाभावेऽपीहभवोऽस्तु, को दोषः । सत्ययुक्तमिदं त्वया, न तु युक्तम्, दृष्टान्त-दान्तिकयोवैषम्यात्, यथा हि क्युतिसमय इहत्यदेहाभावस्तथेहत्यायुः पोऽप्यभाव एव, तस्यापि निर्जीर्यमाणस्य निर्जीर्णत्वात्, ततः कथमसौ च्युतिसमय इहभवो भवतु, इहत्यायुष्कोदयाभावात् । । विग्रह काले तु युक्तं परभवत्वम् , परभवायुष्कोदयसद्भावादिति । तस्मात् परभवश्च्युतिसमयः परभवायुष्कोदयात्, विग्रहकाळवत्, अन्यथा तस्य निर्व्यपदेश्यत्वप्रसङ्गात् । अतः 'पैरभवपढमे साढणं' इति स्थितम् । तदेवमौदारिकसंघात परिशाटो भयानां काल उक्तः॥३३२५॥
अथ तेषामेवान्तरकालमभिधित्सुः संघातस्य तावज्जघन्यमन्तरकाळमाहसंघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहम्मि समया तइओ संघायणासमओ ॥ ३३२६ ॥ तेहणं खुडुभवं धरिउ परभवमविग्गहेणेव । गंतूण पढमसमए संघायाओ स विन्नेओ ॥ ३३२७ ॥
१ यदेव विग्रहकालो देहाभावेऽपि ततः परभवः सः ।च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ? ॥३३२५।। २ गाथा ३३२० । ३ संघातान्तरकालो जघन्यतः क्षुल्लकं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ३३२६ ॥ तेरूनं क्षुक्तभवं धृत्वा परभवमविप्रहेणैव । गत्वा प्रथमसमये संघातात् स विज्ञेयः ॥ ३३२७ ।।
११२६॥
Jan Educational InteAX
For Personal and
Use Only
Xww.jainabrary.org