SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२६॥ 666०००००.०००००००००००००००००००००००००००००००००००० व्याख्या-एकदौदारिकशरीरस्य संघातं कृत्वा पुनस्तत्संघातं कुर्वतस्विभिः समययूनं क्षुल्लकभवग्रहणं जघन्योऽन्तरकालः पाप्यते । स च यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः समयहूयं विग्रहे कृत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नस्तृतीयसमये औदारिकस्य संघातं कृत्वा यथोक्तैत्रिभिः समयैन्यूनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयं विधाय मृतो निर्विग्रहेणैव च ऋजुश्रेण्याग्रेतनभवे पृथिव्यादिपूत्पन्न औदारिकशरीरस्य संघातं करोति, तदा तस्य जन्तोरौदारिकशरीरसंघातस्य च त्रिसमयन्यूनक्षुल्लकभवग्रहणलक्षणो जघन्योऽन्तरकालो विज्ञेयः । इह च जघन्यान्तरकालस्य प्रतिपादयितुं प्रस्तुतत्वात प्रथम विग्रहण, अग्रेतनभये तु निर्विग्रहेणात्पादितः, अन्यथा मध्यपान्तरकाळप्रसङ्गादिति ।। ३३२६ ।। ३३२७ ॥ अथौदारिकस्यैवोत्कृष्टं संघातान्तरकालमाहउक्कोसं तेत्तीसं समयाहियपुवकोडिसहियाई । सो सागरोवमाइं अविग्गणेव संघायं ।। ३३२८ ॥ काऊण पुवकोडिं धरिउं सुरजिट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययओ तस्स ॥ ३३२९॥ व्याख्या-'सागरोपमाणि' इत्यस्य व्यवहितः संबन्धः । ततश्च त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यभ्यधिकानि 'औदारिकसंघातान्तरमुत्कृष्टं भवति' इति गम्यते । कदा पुनरयं संघातान्तरकालो लभ्यते ? इत्याह -स उक्तलक्षणः काल इह तृतीय समये संघातयत औदारिकशरीरस्य संघातं कुर्वतो लभ्यत इति द्वितीयगाथायां संटङ्कः । किं कृत्वा ? इत्याह-कुतश्चित् पूर्वभवादविग्रहेणेह तावद् मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोटिं विधृत्य पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्ठमायुष्कं त्रयस्त्रिंशत्सागरोपमलक्षणमनुत्तरसुरेष्वनुभूय ततश्च्युत्वा समयद्वयं विग्रहे विधायेति । अत्र च विग्रहसत्कसमयद्वयमध्यादेकः प्राक्तन. पूर्वकोट्या प्रक्षिप्यते । एवं च सति त्रयस्त्रिंशत् सागरोपमाणि समयाधिकपूर्वकोट्यधिकानि उत्कृष्टमौदारिकशरीरसंघातान्तरं सिद्धं | भवति । अस्य चोपलक्षणत्वात् पूर्वकोव्यायुषो मत्स्यस्याप्रतिष्ठाननरके समुत्पत्थं पुनर्मत्स्येषूत्पन्नस्यदमन्तरं मन्तव्यामिति ॥३३२८-२९॥ अथौदारिकस्यैव संघात-परिशाटोभयस्य जघन्यमुत्कृष्टं चान्तरकालमाह १ उत्कृष्टं त्रयस्त्रिंशत समयाधिकपूर्वकोटिसाहितानि । स सागरोपमाण्यविग्रहेणैव संघातम् ॥ ३३२८ ॥ कृत्वा पूर्वकोटि धृत्वा सुरज्येष्ठमायुष्कं ततः । भोक्त्वेह तृतीये समये संघातयतस्तस्य ॥ ३३२९ ॥ ॥१२६८॥ Jan E nter For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy