SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२६॥ ग्रहणान्येकस्मिन्नुच्छासनिःश्वासे सातिरेकाणि सप्तदश मन्तव्यानि ; यत उक्तम्-"खुड्डागभवग्गहणा सत्तरस हवंति आणुपाणम्मि" . इत्यादि ॥ ३३१८ ॥ अथ 'पल्लतियं' इत्याद्युत्कृष्टसंघात-परिशाटोभयकालभावनामाहउक्कोसो समऊणो जो सो संघायणासमयहीणो । किह न दुसमयविहीणो साडणसमएऽवणीयम्मि ॥३३१९॥ इह यो देवकुर्वादिषुत्पन्न औदारिकशरीरस्य प्रथमसमये संघातं कृत्वा त्रीणि च पल्योपमानि उत्कृष्टमायुः परिपाल्य म्रियते, तस्य संघातसमयन्यूनानि त्रीणि पल्योपमान्युत्कृष्टः संघात-परिशाटोभयकालः प्राप्यते । अत्राह-ननु कथमेकेनैव समयेन न्यूनो१ ऽयमाभिधीयते, यावता यथा शरीरग्रहणप्रथमसमये सर्वसंघातस्तथा तन्मोक्षसमये सर्वपरिशाटोऽपि भवति । ततस्तस्मिन् परिशाटसमयेऽपनीते समययहीन एवासौ मामोतीति ॥ ३३१९ ॥ अत्र प्रतिविधित्सुराहभण्णइ भवचरिमम्मि वि समए संघायसाडणे चेव । परभवपढमे साडणमओ तदूणो न कालो त्ति ॥३३२०॥ भण्यतेऽत्रोत्तरम्-भवस्य चरमेऽपि समये संघात-परिशाटोभयमेव प्रवर्तते । यत्तु शरीरपुद्गलानां केवलं परिशाटनमेव, तत् परभवस्य प्रथमसमय एव मन्तव्यम्, 'परभनपढमे साढणं' इति निश्चयनयमताश्रयणात् । अतस्तेन परिशाटसमयेन न्यूनः संघातपरिशाटोभयकालो न भवतीति ॥३३२०॥ अत्र व्यवहारनयवादी प्रेरयतिजैइ परपढ़मे साडो निम्विग्गहओ य तम्मि संघाओ। नणु सव्वसाड-संघायणाओ समए विरुद्धाओ ॥३३२१॥ १ क्षुल्लकभवग्रहणानि सप्तदश भवन्ति प्राणापानयोः ( श्वासोच्छ्रासे) २ उत्कृष्टः समयोनो यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमयेऽपनीते ॥ ३३१९ ।। ३ भण्यते भवचरमेऽपि समये संघात-शाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ।। ३३२० ॥ ४ यदि परप्रथमे शाटो निर्विग्रहत्तश्च तस्मिन् संघातः । ननु सर्वशाट-संघातने समये विरुद्धे ॥३३२१॥ ॥१२६५॥ For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy