________________
विशेषा
हद्वतिः।
॥१२६४॥
तत्रौदारिकशरीरस्य संघात-परिशाटोभयकालमाहखुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयरस । पल्लतियं समओणं उक्कोसोतरालकालोऽयं ॥ ३३१७ ॥ अत्र संघात-परिशाटोभयस्य जघन्यकाले प्रतिपाद्ये विग्रहेणोत्पादनीयः; अत एवाहदो विग्गहम्मि समया समओ संघायणाइ तेहूणं । खुड्डागभवग्गहणं सव्वजहण्णट्टिईकालो ॥ ३३१८ ॥ इह यत् पञ्चाशदधिकावलिकाशतद्वयमानमायुषो जघन्यस्थितिरूपं क्षुल्लकभवग्रहणमुच्यते, तथा च वृद्धोक्तम्
"दो य सया छप्पन्ना आवलियाणं तु खुड्डभवमाणं । जियराग-दोस-मोहेहिं जिणवरहिं विणिद्दिढ ॥ १॥" इदं च क्षुल्लकभवग्रहणं द्वाभ्यां विग्रहसमयाभ्यामेकेन संघातसमयेन न्यून संघात-परिशाटलक्षणस्योभयस्य जघन्य स्थितिमान जघन्यतोऽपि संघात-परिशाटोभयमेतावन्तं कालं भवतीत्यर्थः । अत्राह कश्चित् - ननु
विदिसाओ दिसिं पढमे बीए पविसेइ लोगमज्झम्मि । तइए उप्पि धावइ नाडीवहिं जायइ चउत्थे ॥१॥" इति वचनाद् यदाऽधनसनाड्या बहिर्देशादूर्ध्व लोके त्रसनाड्या बहिरेव निगोदादिजीवश्चतुर्भिः समयैरुत्पद्यते, तदा विग्रहगतावपान्तरालगतावाद्यास्त्रयः समयाः, चतुर्थस्तु संघातसमयः, इत्येवं चतुर्भिरपि समयैन्यूँनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयस्य जघन्यकालः प्राप्यते, तत् किंमितीह त्रिभिरेव समयैन्यूनं क्षुल्लकभवग्रहणं जघन्यस्तत्काल उक्तः? । सत्यम्, किन्त्वस्यां चतुःसमयायां विग्रहगतौ य आद्यसमयः स इह परभवप्रथमसमयो न विवक्षितः, किन्तु पूर्वभव चरमसमय एव, पूर्वभवशरीरस्य तत्र मुच्यमानत्वात्, मुच्यमानं च मुक्तमिति व्यवहारनयमताश्रयणादिति । अथवा, त्रसजीवसंबन्धिन्यवहापान्तरालगतिर्विवक्षिता, त्रसजीवाश्वोत्कृष्टतोऽपि | तृतीयसमये उत्पत्तिस्थानं प्राप्नुवन्तीत्यदोष इति तावद् वयमवगच्छामः । तत्वं तु बहुश्रुता एव विदन्तीति । इह चैतानि क्षुल्लकभव
१ क्षुल्लकभवग्रहणं त्रिसमयहीनं जघन्यमुभयस्य । पल्यत्रिक समयानं उत्कृष्टोऽन्तरालकालोऽयम् ॥ ३३१७ ॥ २द्वी विग्रहे समयो समयः संघातनादि तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यस्थितिकालः ।। ३३१८ ।। ३ द्वे च शते षट्पञ्चाशदावलिकानां तु क्षुल्लभवग्रहणम् । जितराग-द्वेष-मोहै जिनवरीर्वनिर्दिष्टम् ॥ १॥ ४ विदिशो दिशं प्रथमे द्वितीये प्रविशति लाकमध्ये । तृतीये उपरि धावति नाडीबहिर्जायते चतुर्थे ॥ १॥
॥१२६४॥
JainEducationa.intern
For Personal and Price Use Only
Row.jainelibrary.org