SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥९२६३॥ Jain Education in ठवणमणेगविहं दुहं पढमस्स भेसएहिं पि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥ ३३१५ ॥ विनष्टकरणाद्यवयवसंघानादिरूपमौदारिके, केशाद्युपरचनरूपं तु संस्थापनं वैक्रिय इत्येवं द्वयोरायशरीरयोः संस्थापनं संस्करणमनेकविधं भवति, प्रथमस्य पुनरौदारिकशरीरस्यान्योऽपि विशेषः । कः ? इत्याह- भेषजैरपि लक्षपाकतैलादिभिर्यद् वर्णादीनां विशेषोपादानं तत् तस्योत्तरकरणम् । तृतीये त्वाहारकशरीरे केश-नख दन्तादिपरिकर्म नास्त्येव, स्वरूपेणैव विशिष्टत्वात् प्रयोजनाभावाच्चेति ॥ ३३१५॥ अथवा, प्रकारान्तरेणापि त्रिविधं जीवप्रयोगकरणं विज्ञेयम् । कथम् ? इत्याह संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं ॥ ३३१६ ॥ अथवा, औदारिकादिशरीराणां संघातनं, परिशाटनं, संघात परिशाटोभयलक्षणमुभगं चेत्येवं त्रिविधं करणं विज्ञेयम् । तत्र पूर्वभविक मौदारिकादिशरीरं परित्यज्याग्रेतनभवे पुनरपि तद्गतौ यत् पुद्गलानां संघातनं संग्रहणं स संघातः, यस्तु तदेवौदारिकशरीरं परित्यजतश्चरमसमये सर्वथा तत्पुद्गलानां परित्यागः 'शट रुजा विशरण- गत्य ऽवसादनेषु' इति धातोः पुद्गलानां परिशाटनमवसादनं परिशाटः । संघात-परिशाटसमययोश्चापान्तराळसमयेषु सर्वेष्वपि संघात - परिशाटोभयं द्रष्टव्यम्, सर्वत्र पूर्वपरिगृहीतकानां मोचनात्, अन्येषां च ग्रहणादिति । तत्राद्यशरीरत्रयस्य संघात परिशाटो भयलक्षणं त्रिविधमपि करणं भवति, तैजस-कार्मणयोस्तु संघातो न भवत्येव, परित्यक्तयोस्तयोः पुनर्ग्रहणाभावादिति । अथ संघातादीनां कालपरिमाणमभिधित्सुराह - 'सिंति' एतेषां संघात - परिशाटोभयानां कालोऽभिधीयते । क्रियान् ? इत्याह- ' आयाणमुयणसमउ त्ति' आदान मौदारिकादिशरीरपुद्गलानां प्रथमं ग्रहणं संघातनं संघात इत्यर्थः, अयमेकमेव समयं भवति, ततः परं संघात - परिशाटोभयप्रवृत्तेः, मोचनं पुद्गलानां परिशाटनं परिशाटः सोऽप्येकसमयमेव भवति, तदन्तरालं संघातपरिशाटोभयलक्षणमिह गृह्यते, तस्य कालो 'वक्ष्यते' इति शेषः । चशब्दात् 'संघातादीनामन्तरालकालश्च वक्ष्यते' इति दृश्यमिति ।। ३३१६ ।। १ संस्थापनमनेकविधं द्वयोः प्रथमस्य भेषजैरपि । वेणादानां करणं परिकर्म तृतीय के नास्ति ।। ३३१५ ।। २ संघानं परिशाटनमुभयं करणमथवा शरीराणाम | आदन-मोचन समयस्तदन्तरालं च काल एषाम् ।। ३३१६ ॥ For Personal and Private Use Only बृहद्वृत्ति ।। ॥१२६३॥ ww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy