________________
विशेषा०
बृहद्वृत्तिः ।
॥१२६२॥
अथ प्रयोगकरणमाहहोई प्पओगो जीवव्यापारो तेण जं विणिम्माणं । सजीवमजीवं वा पओगकरणं तयं बहुहा ॥ ३३१२॥ सज्जीवं मूलुत्तरकरणं मूलकरणं जमाईयं । पंचण्हं देहाणं उत्तरमाइत्तियस्सेव ॥ ३३१३ ॥
व्याख्या-प्रयोजनं प्रयोगो भवति । कः? इत्याह-जीवव्यापारः, तेन यद् विनिर्माणं विनिर्मापनं तत् प्रयोगकरणं भण्यते, तच्च सज्जीवमजीवं च बहुधा भवति । इह च सन् विद्यमानो जीवो यत्र तत् सज्जीवं प्रयोगकरणं पश्चानामौदारिकादिशरीराणां द्रष्टव्यम् । इदं च मूलकरणो-त्तरकरणभेदाद् द्विविधम् । अत एवाह-'सज्जीवं मूलो त्तरकरणं ति' सजीवं प्रयोगकरणं द्विभेदमः तद्यथामूलकरणम्, उत्तरकरणं च । तत्र मूलकरणं 'जमाईयं ति' पश्चानामपि शरीराणां यदाद्यं पुद्गलसंघातकरणं तद् मूलकरणं वेदितव्यम् । 'उत्तरमाइत्तियस्सेव त्ति' उत्तरकरणं त्वादित्रिकस्यैव, आद्यानामेवौदारिक वैक्रिया-ऽऽहारकशरीराणां भवति, न तु तैजस-कार्मणयोरित्यर्थः ।। ३३१२ ॥ ३३१३ ॥
___ नन्वस्याद्यशरीरत्रयस्य शिर-उर-प्रभृतीन्यङ्गानि, कर-चरणानुल्यादीनि चोपाङ्गानि भवन्ति, तत्रापि कियदिह मूलकरणम्, कियच्चोत्तरकरणम् ? इति विभागेन कथ्यतामित्यत्राह
मूलकरण सिरो-रु-पिट्ठी-बाहो-दरो-रुनिम्माणं । उत्तरमवसेसाणं करणं केसाइकम्मं व ॥ ३३१४ ॥
इहौदारिकादिशरीरत्रये यच्छिर-उरः पृष्ठि-बाहुद्रयो दरो रुद्वयलक्षणानामष्टानामङ्गानां निर्माणं निष्पादनं तत् मूलकरणम, 188 | अवशेषाणां तु कर-चरणाङ्गुल्यादीनामुपाङ्गानां यद् निर्माणं तदुत्तरकरणम्, तथौदारिक-वैक्रियशरीरयोः केश-नख-दशनादिसंस्काररूपं यत् केशादिकर्म तदपि तयोरुत्तरकरणमिति ।। ३३१४ ॥
अपरमप्यौदारिक-वैक्रियशरीरयोरुत्तरकरणं दर्शयन्नाह
१ भवति प्रयोगो जीवव्यापारस्तेन यद् विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तद् बहुधा ॥ ३३१२।।
सज्जीवं मूलोत्तरकरणं मूलकरणं यदाद्यम् । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ ३३१३ ॥ २ मूलकरणं शिर-तर:-पृष्ठि-बाहू-दरो-कनिर्माणम् । उत्तरमवशेषाणां करणं केशादिकमेव ।। ३३१४ ॥
॥१२६२॥
Jain Educational Intele
For Personal and Price Use Only
106/www.jainelibrary.org