________________
दमेव, 'माता मे बन्ध्या' इत्यादिवचनवदिति । भण्यतेत्रोत्तरम्-मायं दोषः, यस्माद् धर्मास्तिकायादिप्रदेशानामन्योन्यं परस्परं यत् विशेषा
सम्यगाधानं समाधानमनादिकालात् संहत्यावस्थानम्, धातूनामनेकार्थत्वात्, तदेवेहाभिप्रेतं करणम्, न पुनरपूर्वा निवृत्तिः । धर्मास्ति॥१२६१॥ कायादिप्रदेशराशेश्च यत् संहत्यावस्थानं तस्यानादित्वं न किश्चिद् विरुध्यते, अनादिकालीनत्वादस्येति ॥ ३३०९ ।।
___ अथवा, धर्माधर्म-नभसां सादिकमपि करणं भवतीति दर्शयन्नाह - अहवा परपच्चयाओ संजोगाइ करणं नभाईणं । साइयमुवयाराओ पज्जायादेसओ वावि ॥ ३३१० ॥
अथवा, उपचाराद् नभःप्रभृतीनां करणं सादिकं विज्ञेयम् । उपचारोऽपि कुतः ? इत्याह-परप्रत्ययात्, घटादिवस्तून्याश्रित्ये. त्यर्थः । कथंभूतं करणम् ? संयोगादि, आदिशब्दाद् विभागादिपरिग्रहः । इदमुक्तं भवति-आकाशादीनां घटादिसंयोगादयः सा18 दयः सपर्यवसानाश्च । ततो यत् तेषां घटादिभिः सह संयोगादिकरणं तत् सादिकं भवत्येव । अथवा, पर्यायरूपतया सर्वमपि वस्तु
जैनानां सादि सपर्यवसितमेव भवति । अतः पर्यायादेशतः पर्यायानाश्रित्य नभामभृतीनामपि करणं सादिकं बोद्धव्यमिति । तदेवम| रूपिणामजीवद्रव्याणां साधनादि च विस्रसाकरणमुक्तम् ॥ ३३१० ।।
__ अथ रूप्यजीवद्रव्याण्याश्रित्याहचक्खुसमचक्खुसं चिय साईअं रूविवीससाकरणं । अब्भाणुप्पभिईणं बहुहा संघाय-भेयकयं ॥ ३३११ ॥
इहाभ्रे-न्द्रधनु:-परमाणुप्रभृतीनां रूप्यजीवानां विस्रसाकरणं चक्षुभ्या दृश्यत इति चाक्षुषमभ्रादीनाम्, चक्षुर्गोचरातीतमचा. क्षुष परमाणु-द्वयणुकादीनाम् । एतद् द्विविधमपि संघात-भेदकृतं बहुधा बहुभेदं सादिकं भवति । अभ्रादीनां केचित् पुद्गलाः संहन्यन्ते, केचित्तु भिद्यन्ते, ततस्तेषां नानारूपता भवति । एवं द्वयणुकादिस्कन्धेष्वपि वाच्यम्, परपाणोस्तु स्कन्धाद् भेदकृतमेव करणम्, "भेदादणुः” (तत्त्वा० ५, २७) इति वचनादिति । करणं चेह कृतिः खभावत एव निवृत्तिर्गृह्यते, न पुनः क्रियत इति करणमिति । उक्तं विस्रसाकरणम् ॥ ३३११ ॥
१ अथवा परप्रत्ययात् संयोगादि करण नभआदीनाम् । सादिकमुपचारात् पर्यायादेशतो वापि ॥ ३३१० ।। २ चाक्षुषमचाक्षुषमेव सादिकं रूपिविससाकरणम् । अभ्रा-ऽणुप्रभृतीनां बहुधा संघात-भेदकृतम् ।। ३३११ ॥
॥१२६१॥
For Personal and Price Use Only