________________
विशेषा०
॥१२६०॥
Jain Educator Intern 199
इति नामकरण-संज्ञाकरणयोर्भेद इति । आह- ननु यदि तदर्थविहीनं करणशब्दार्थरहितं संज्ञाकरणं न भवति, ततस्तर्हि किं कस्माद् द्रव्यकरणमेतत् ? - किमिति द्रव्यविचारे इदं पठ्यते ? - ननु भावकरणमेवास्त्वित्यभिप्रायः । उच्यते - यतस्तेन पेलुकरणादिना संज्ञाकरणेन द्रव्यं पूणिकादिकं क्रियते निर्वर्त्यते, अतो 'द्रव्यस्य करणं द्रव्यकरणम्' इति व्युत्पत्त्यर्थमाश्रित्य द्रव्यकरणमिदमुच्यते । संज्ञाकरणं त्विदं करणरूढितो भण्यते, करणसंज्ञाया लोकेऽस्य रूढत्वादित्यर्थः || ३३०४ ।। ३३०५ ।। ३३०६ ।।
अथ नोसंज्ञाकरणमाह -
नोसन्न करणं पुण दव्यस्सारूढकरणसण्णं पि । तक्किरियाभावाओ पाओगओ वीससाओ य ॥ ३३०० ॥ साइयमणाइयं वा अजीवदव्वाण वीससाकरणं । धम्माऽधम्म नहाणं अणाइ संघायणाकरणं ॥ ३३०८ ॥
व्याख्या -नोसंज्ञाकरणं तु द्रव्यस्य प्रयोगतो विस्रसातश्च भवति । कथंभूतम् ? इत्याह- अरूढकरणसंज्ञमपि - अरूढा अमसिद्धा 'करणम्' इति संज्ञा यत्र तदरूढकरणसंज्ञमपि, अत एव करणसंज्ञायास्तत्राभावाद् नोसंज्ञाकरणमुच्यते- अरूढकरणसंज्ञ करणमिदमित्यर्थः । यदि करणसंज्ञा तत्र नास्ति तर्हि करणमपि कथमुच्यते ? इत्याह – 'तकिरियाभावाड त्ति' सा चासौ करणलक्षणा क्रिया च तत्क्रिया तस्याः सद्भावादिति । इदमुक्तं भवति - यद्यपि शरीराऽभ्रे-न्द्रधनुरादौ करणसंज्ञा नास्ति तथापि प्रयोगविस्रसाजनितकरणक्रिया विद्यते, अतस्तदपेक्षमेतेषां करणत्वं न विरुध्यत इति । तत्राजीवद्रव्याणां विस्रसारणं सायनादि च भवति । तत्र धर्मा-धर्मास्तिकाय नभसां संघातनाकरणं प्रदेशानां परस्परसंहत्यवस्थानरूपं करणमनादिरूपं विज्ञेयमिति ।। ३३०७ ।। ३३०८ ॥
अत्र पर माह-
नैणु करणमणाइयं च विरुद्धं भण्णए न दोसोऽयं । अन्नोन्नसमाहाणं जमिहं करणं न निव्वती ॥ ३३०९ ॥ ननु कृतिनिर्वृत्तिर्वस्तुनः करणमुच्यते तच्च साद्येव भवति, घट-कट शकटादिकरणवत् । ततश्च करणमनादि चेत्युच्यमानं विरु
१ नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढ करणसंज्ञमपि । तत्क्रियाभावात् प्रयोगतो विस्रातश्च ।। ३३०७ ।। सादिकमनादिकं वाऽजीवद्रव्याणां विस्रसाकरणम् । धर्माऽधमं नभसामनादि संघातनाकरणम् ।। ३३०८ ।। २ ननु करणमनादिकं च विरुद्धं भण्यते न दोषोऽयम् । अन्योन्यसमाधानं यदिह करणं न निर्वृत्तिः ।। ३३०९ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
1001
।।१२६०॥
www.jainelibrary.org