SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२५९॥ क्रियते तस्मिन्नित्यधिकरणसाधनः । तत्र कर्म-करणा-ऽधिकरणपक्षेषु द्रव्यं च तत् करणं चेति कर्मधारय एव सपास इत्येतत् स्वयमेव द्रष्टव्यम् । 'संभवओ व किरिया मया करणं.ति' अथवा, संभवतो यथासंभवमपरं षष्ठीतत्पुरुषादिकं समासमपेक्ष्य क्रियैव मतं करणम, सर्वकारकनिष्पाद्यत्वाद् धात्वर्थस्येति । तमेव षष्ठीतत्पुरुषादिकं समासं दर्शयति-द्रव्यस्य करणं द्रव्यकरणम्, द्रव्येण वा करणं द्रव्यकरणम्, द्रव्ये वा करणं द्रव्यकरणमिति । अस्य च द्रव्यकरणस्यागमतो नोआगमतश्चेत्यादिविचारः सुकर एव तावद् यावज्ज्ञशरीरभव्यशरीर व्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं, नोसंज्ञाकरणं च ।। ३३०३ ।। तत्र संज्ञाकरणमाहदेवकरणं तु सण्णाकरणं पेलुकरणाइयं बहुहा । सण्णा नाम ति मई तं नो नाम जमभिहाणं ॥३३०४॥ जं वा तदत्थविगले कीरइ दव्वं तु दव्वपरिणामं । पेलुकरणाइ न हि तं तदत्थसुन्नं नवा सहो ॥३३०५॥ जइ न तदत्थविहीणं तो किं दव्वकरणं जो तेणं । दव्वं कीरइ सण्णाकरणं ति य करणरूढीओ ॥३३०६॥ व्याख्या-द्रव्यकरणं तु यत् तावत् संज्ञाकरणं तत् पेलुकरणादिकं बहुभेदम् । तत्र लाटदेशे रूतसंबन्धिनी या 'पूणिका' इति प्रसिद्धा सैव महाराष्ट्रकविषये 'पेलु' इत्युच्यते, तस्याः करणं निवतकं वंशादिमयी शलाका पेलुकरणम्, आदिशब्दात कटकरणं पाइल्लकादि, तथा वार्ताकरणं बालानामधीयानानां वर्तनकम्, तथा काण्डकारणगुपकरणविशेषरूपं काण्डकरणं परिगृह्यते । एवमन्यदपि लोकप्रसिद्धं लोकसंज्ञविशिष्टं करणं संज्ञाकरणं वेदितव्यम् । ननु संज्ञा नामवोच्यते, ततश्च संज्ञाकरण नामकरणयोर्विशेषो न प्राप्नोतीति परस्य मतिर्भवेत्, तदेतद् नो नैव युक्तम्, यस्मात् 'करणम्' इत्यक्षरत्रयात्मकमभिधानमात्रमेव नाम, न तु द्रव्यम् अथवा यत तदर्थविकले करणार्थविकले वस्तुनि संकेतमात्रतः ‘करणम्' इति नाम क्रियते तद् नामकरणमुच्यतेसंज्ञाकरणं तु पेलुकरणादिक प्रणिकावलनकशलाकादि द्रव्यम् तेन तेन पूणिकाकरणरूपेण यद् द्रवणं गमनं तत्परिणामं तत्स्वभावमभिधीयते, हि यस्माद् न तत पेठकरणादि द्रव्यं तदर्थशून्यं करणशब्दार्थविकलम्, पूणिकादिकरणपरिणामान्वितत्वात्, नापि शब्दः करणाभिधानमात्ररूपः, १ द्रव्यकरणं तु संज्ञा करणं पेलुकरणादिकं बहुधा । संज्ञा नामेति मतिस्तद् नो नाम यदभिधानम् ।। ३३०४ ।। यद् वा तदर्थविकले क्रियते द्रव्यं तु द्रव्यपरिणामम् । पेलुकरणादि न हि तत तदर्थशून्य न वा शब्दः ।। ३३०५ । यदि न तदर्थविहीनं ततः किं द्रव्यकरणं यतस्तन । द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढेः ।। ३३०६ ॥ 888888888888888888 666666 ०॥१२५९॥ Jain Educationa.Inte For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy