________________
विशेषा ०
॥१२५८॥
Jain Educatora International
सूत्रं यदुच्चरितं तत्र 'करोमि इति भणिते यतो धातु: 'डुक करणे' करणार्थे विहितः पठितस्तेन तस्मात् 'करोमि' इति वचनतस्तदर्थभूतं करणमत्र गम्यते । अतस्तदादौ करणं पदमिह दर्शितमिति ॥ ३३०० ।।
तत्रास्य करणपदस्य शब्दार्थ भेदांशाह
करणं किरिया भावो संभवओ वह छव्विहं तं च । नामं ठवणा दविए खित्ते काले य भावे य ॥ ३३०१ ॥
करणं क्रियेति भावाभावमात्रमिह वाच्यम्, 'संभवओ वेह त्ति' अथवा, संभवतो यथासंभव मिह शब्दार्थो वक्तव्यःः यद्यथा क्रियते तदिति करणम्, क्रियतेऽनेनेति करणम्, क्रियतेऽस्मादिति करणम्, क्रियतेऽस्मिन्निति वा करणमित्यादि । तच्च करणं नामादिभेदात् षड्विधमिति ।। ३३०१ ।।
तत्र नाम स्थापनाकरणवाह
नाम नामस्स व नामओ व करणं ति नामकरणं ति । ठवणा करणन्नासो करणागारो व जो जस्स ॥३३०२ ||
'नामं ति' नामैव करणं नामकरणमिति सामानाधिकरण्यं द्रष्टव्यम् । अथवा, नाम्नः करणं नामकरणम्, नामतो वा करणं नामकरणम्, 'करणं ति' अयं करणशब्दः प्रत्येकं योजनीयः, स च योजित एव । 'नामकरणं' इति द्वारपरामर्शः । 'ठवण त्ति' स्थापनाकरणमुच्यत इत्यर्थः । किं तत् ? इत्याह- करणस्य करणशब्दस्य न्यासः करणन्यासः, अथवा, यो यस्य करणस्य दात्रादेराकारः काष्ठादौ विन्यस्तः स स्थापनाकरणमिति ।। ३३०२ ॥
अथ द्रव्यकरणमभिधित्सुर्दव्यकरणशब्दस्य व्युत्पादनार्थमाह
तैं तेण तस्स तम्मि व संभवओ व किरिया मया करणं । दव्वस्स व दव्वेण व दव्वम्मि व दव्वकरणं ति ॥ ३३०३ ॥ क्रियते तदिति करणमिति करणशब्दः कर्मसाधनः क्रियतेऽनेनेति करणसाधना, तस्य द्रव्यस्य कृतिः करणमिति भावसाधनः,
१ करणं क्रिया भावः संभवतो वह षड्विधं तच । नाम स्थापना द्रव्यं क्षेत्रं कालच भावश्च ।। ३३०१ ||
२ नाम नाम्नो वा नामतो वा करणमिति नामकरणमिति । स्थापना करणन्यासः करणाकारो वा यो यस्य ।। ३३०२ ।। ३ तत् वेन तस्य तस्मिन् वा संभवतो वा क्रिया मचा करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ।। ३३०३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५८॥
www.jainelibrary.org