SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विशेषा० १२५७॥ Jain Education Inter कथं पुनः सूत्रानुगमा विधेयाः : इत्याह अगंतव्वं सुतं सुत्तागमाणुसारओ तं च । सुत्तं करेमि भंते ! सामाइयमेवमाईयं ॥ ३२९७ ॥ अनुयोगद्वारोक्तसूत्रानुगमानुसारतो हीनाक्षरमनत्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमित्यादिरूपं सूत्रमनुगन्तव्यं व्याख्येयम् । तच्च सूत्रं ' करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं ' इत्याद्युच्चारणीयम् । तस्य चार्थो मूलावश्यकटीकातोऽवसेयः । अत्रापि प्रतिपदं व्याख्यानं वक्ष्यत इति ।। ३२९७ ।। ननु तस्योच्चारितस्य सूत्रस्य किमिह वाच्यम् : इत्याह तेरस कयपयन्नासो सुत्त फासं भणामि तत्थेव । सुत्तालावन्नासं नए य वुच्छामि संभवओ ॥ ३२९८ ॥ तस्य च सूत्रस्य कृतपदन्यासोऽहं सूत्रस्पर्श भणामि - पदान्युच्चार्य ततः सूत्रस्पर्श भणिष्यामीत्यर्थः, तथा, तत्रैव सूत्रे सूत्राकापकानां न्यासं निक्षेपम्, नयांश्च यथासंभवं वक्ष्यामि ।। इति गाथात्रयार्थः ।। ३२९८ ॥ तत्र पदानि विच्छिद्य दर्शयन्नाह - कैरणे भए य अंते सामाइय सव्वए य वज्जे य । जोगे पच्चक्खाणे जावज्जीवाइ तिविहेणं ॥ ३२९९ ॥ इयं च नियुक्तिगाथा ॥ ३२९९ ॥ अत्र कश्चिदाह— ननु 'करेमि भंते सामाइयं' इत्यादिके सूत्रे 'करेमि' इति पदमादौ वर्तते, तत् कथं 'करणे' इति दर्शितम् ? इत्याशङ्कय भाष्यकार आह सुत्तं करोमि भणिए धाऊ विहिओ जओ डुक्कियं करणे । तेण करेमिवयणओ गम्मइ करणं तदत्थो त्ति ॥ ३३०० ॥ १५८ १ अनुगन्तव्यं सूत्रं सूत्रानुगमानुसारतस्तञ्च । सूत्रं करोमि भदन्त ! सामायिकमेव मादिकम् ।। ३२९७ ॥ २ तस्य कृतपदन्यासः सूत्रस्पर्श च भणामि तत्रैव । सूत्रालापकम्यासं नयांश्च वक्ष्यामि संभवतः ।। ३२९८ ।। ३ करणं भयं चान्तः ( भदन्तः ) सामायिकं सर्वकश्च वर्जश्च (वद्यं च ) । योगः प्रत्याख्यानं यावज्जीवादि त्रिविधेन ।। ३२९९ ।। ४ सूत्रं करोमि भणिते धातुर्विहितो यतो डुकुंगू करणे । तेन करोमिवचनतो गम्यते करणं तदर्थ इति ।। ३३०० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥१२५७॥ www.janbrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy