________________
विशेषा
E/बृहदतिः ।
॥१२५६॥
ज्ञानस्य कारणतां याति, तेनं तस्मात् तत् पूज्य मिति ॥ ३२९३ ॥
तदेव कोप-प्रसादविरहादीन् पञ्चापि परोपन्यस्तहेतून् निराकृत्योपसंहरन्नाहतेणे सुहालंबणओ परिणामविसुद्धिमिच्छया निच्चं । कज्जा जिणाइपूया भव्वाणं बोहणत्थं च ॥३२९४॥
येनैवम्, तेन तस्मात् परिणामविशुद्धिमिच्छता कार्या विधेया जिनादीनां नित्यमेव पूजा। कुतः? इत्याह-शुपालम्बनतः शुभा. लम्बनरूपत्वात् । न केवलं स्वपरिणामविशुद्धिनिमित्तम्, भव्यजनावबोधनार्थं च विधेया जिनादिपूजा । तद्दर्शने ह्यनेके भव्याः प्रतिबु. ध्यन्ते, जिनधर्ममासादयन्ति, समासादिते च स्थिरीभवन्ति । अत एव तत्करण कारणा-ऽनुपोदनादिप्रवृत्तसंवेगातिशयात क्षपितकर्मणो. ऽन्तकृत्केवलिनो भूत्वाऽनन्तेन कालेनानन्ताः सिद्धान्त सिद्धाः श्रूयन्ते ।। इति सप्ततिगाथार्थः ।। ३२९४ ।।
॥ तदेवमवसितः पश्चनमस्कारः ।।
॥ तदवसाने च नमस्कारनियुक्तिः समाप्ता। अर्थ सामायिकमूत्रविषयां सूत्रस्पर्शकनियुक्तिमभिषित्सुराहकयपंचनम्मोक्कारो करेइ सामाइयं तु सोऽभिहिओ। सामाइयंगमेव य ज सो सेसं अओ वोच्छ ॥ ३२९५ ॥
कृतपश्चनमस्कार एव शिष्यः सामायिक करोतीत्यागमस्थितिः प्रागुक्तयुक्त्या सामायिकाङ्गमेव यस्मादसौ, ततः स पञ्चनमस्कारोऽभिहितः प्रतिपादितः, अतः परं शेष सामायिकसूत्रं वक्ष्ये व्याख्यास्यामि ॥ इति नियुक्तिगाथार्थः ।। ३२९५ ॥
भाष्यकारः प्राहइत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती नया य पइसुत्तमाउज्जा ॥३२९६॥
अत्र च सूत्रव्याख्याने सूत्रानुगमाऽनुगमप्रथमभेदः, तथा सूत्रालापककृतश्च निक्षेपो निक्षेपतृतीय भेदः, तथा नियुक्त्यनुगमतृतीयभेदरूपा सूत्रस्पर्शकनियुक्तिः सूत्रस्पर्शकनियुक्त्यनुगम इत्यर्थः, नयाश्च प्रतिमूत्रमायोज्या इति ॥ ३२९६ ।।
१ तेन शुभालम्बनतः परिणामविशुद्धिमिच्छता नित्यम् । कार्या जिनादिपूजा भव्यानां बोधनार्थ च ।। ३२९४ ।। २ कृतपञ्चनमस्कार: करोति सामायिकं तु सोऽभिहितः । सामायिकानमेव च यत् स शेषमतो वक्ष्ये ।। ३२९५ ॥ ३ अत्र च सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शकनियुक्तिर्नयाश्च प्रतिसूत्रमायोज्या: ।। ३२९६ ।।
॥१२५६॥
Jain Educationa.Inte
For Personal and Price Use Only
www.jainelibrary.org