________________
विशेषा०
।।१२५५।।
Jain Educationa h
ननु तस्य मिथ्यादृष्टेः शुभपरिणामनिमित्तं शुभपरिणामहेतुकं शुभं फलं स्वर्गादिकं भवेत् को वै न मन्यते, यदि तस्यादित एव तकोऽसौ निःशीलपात्रविषयपरिणामः शुभो भवेत् ? । नचोन्मत्तस्येव तस्यासौ शुभः । कुतः १ इत्याह-विपर्यास भावात् निःशीलेऽपि सुशीलाध्यवसायादिति कुतस्तस्य फलं शुभम् इति । यदप्यस्माभिरुक्तम्- 'सुभो य निस्सीके' इति, तदपि तदपेक्षयैव स हि मिथ्यादृष्टिस्तं शुभपरिणामं मन्यते, तत्त्ववोदिनस्तु तस्य शुभत्वं नेच्छन्त्येव, विपर्यासादिति ।। ३२९० ।
पुनरपि पर: प्राह
नॅणु मुणिवेतच्छन्ने निस्सीले वि मुणिबुद्धीए देंतो । पावइ मुणिदाणफलं तह किं न कुंलिंगदायावि ॥३२९१॥ ननु मुनेर्वेषो मुनिवेषस्तेन च्छन्नोऽविज्ञातो य उदायिनृपमारकादिस्तस्मिन् निःशीलेऽपि मुनिबुद्ध्या दानं ददद् दाता मुनिदानफलं स्वर्गादिकं प्राप्नोति, इत्येतद् भवतामपि तावत् संमतम्; तथा तेनैव प्रकारेण कुत्सितलिङ्गी कुलिङ्गी सरजस्कादिस्तस्मै दाता कुलिङ्गदाता, सोऽपि किं न मुनिफलं प्राप्नोति, मुनिबुद्धेस्तस्यापि तत्र सद्भावात् ? इति ॥ ३२९१ ॥
गुरुराह
थाणं मुणिलिंग गुणाण सुन्नं पि तेण पडिमन्त्र | पुज्जं थाणमईए वि कुलिंगं सव्वहाऽजुत्तं ॥ ३२९२ ॥ यस्माद् मुनिलिङ्गं ज्ञानादिगुणानां स्थानमाश्रयः तेन तस्मात् कस्यापि मायाविनः संबन्धि तत् शून्यमपि गुणैरविज्ञातं पापाणादिनिर्मितार्हत्प्रतिमावत् स्थानमत्यापि पूज्यम् । कुलिङ्गं सर्वथा पूजयितुं न युक्तम्, ज्ञानादिगुणानां सर्वथैवानाश्रयत्वादिति ।। ३२९२ ।।
पुनरपि पर: माह
नैणुकेवलं कुलिंगे त्रिहोइ तं भावलिंगओ न तओ । मुणिलिंगमंगभावं जाइ जओ तेण तं पुजं ॥ ३२९३॥ ननु केवलं केवलज्ञानं कुलिङ्गेऽपि वर्तमानानामन्यतीर्थिकानां भवतीत्यागमे श्रूयते, तत् किमिति स्थानबुद्ध्या तत् पूज्यं नेष्यते ? गुरुराह–तत् केवलज्ञानं भावलिङ्गतो भवति, न पुनस्ततः कुलिङ्गात् तस्य केवलज्ञानानङ्गत्वात् । मुनिलिङ्गं पुनर्यस्मादङ्गभाव केवल
१ ननु मुनिवेषच्छन्नं निःशीलेऽपि मुनिबुद्ध्या ददत | प्राप्नोति मुनिदानफलं तथा किं न कुलिङ्गदातापि ? || ३२९१ ।। २ यत् स्थानं मुनिलिङ्गं गुणानां शून्यमपि तेन प्रतिमेव । पूज्यं स्थानमत्यापि कुलिङ्गं सर्वथाऽयुक्तम् ।। ३२९२ ।।
३ ननु केवलं कुलिङ्गेऽपि भवति तद् भावलिङ्गतो न ततः । मुनिलिङ्गमङ्गभावं याति यतस्तेन तत् पूज्यम् ।। ३२९३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५५॥
16 4ww.janeibrary.org