________________
विशेषा०
१३४६
Jain Educator I
" ' तित्भयरवयण संगह विसेसपयत्थायमूलवायरणी । दव्वडिओ य पज्जवनओ य सेसा वियप्पा सिं ॥ १ ॥ "
तथा तेषामेव संग्रहादिनयानां शेषेषु निश्चयनय-व्यवहार- ज्ञान- क्रियादिनयेषु पूर्वोक्तेषु वा सप्तसु नयशतेषु समवतारो विधेयः । तथा 'ताणं चत्ति' तेषामेव संग्रहादिनयानां परस्परं संभवतो यथासंभवं समवतारः कार्यः ; तद्यथा - ऋजुसूत्र : पर्यायादिवादित्वसाम्यात् शब्दनये समवतरति शब्दनयोऽपि भावाद्यभ्युपगमसाम्यात् समभिरूढे, सोऽपि प्रतिशब्दमन्यान्यार्थवाचित्वादिनैवंभूते । एवमन्यथापि यथासंभवं परस्परमेषामन्तर्भावो वाच्य इति ।। ३५८७ ।।
अथ द्रव्य पर्यायार्थिकयोर्यद् मतं तद् दर्शयन्नाह -
देव्वडिअस्स दव्त्रं वत्युं पज्जवनयस्स पज्जाओ । अप्पियमयं विसेसो सामन्नमणप्पियनयस्स ॥ ३५८८ ॥
द्रव्यार्थिकस्य द्रव्यमेव वस्तु, न तु पर्यायाः, तेषां तन्मतेनावस्तुत्वात् । अत एव द्रव्यमर्थोऽस्येति द्रव्यार्थिकोऽयमुच्यते । पर्यायनयस्य तु पर्याय एव वस्तु, न तु द्रव्यम्, तस्य तन्मतेनावस्तुत्वात् । अत एव पर्यायोऽर्थोऽस्येति पर्यायार्थिकोऽसावुच्यते । तथा, अर्प्यते विशेष्यत इत्यर्पितो विशेषस्तद्वादी नयोऽर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति न सामान्यम् । अनर्पितमविशेषितं सामान्यमुच्यते तद्वादी नयोऽनर्पितनयः, सोऽपि समयप्रसिद्ध एव बोद्धव्यः, तन्मतं तु सामान्यमेवास्ति न विशेषः । अत्राप्यर्पिताsaर्पितनयद्वये संग्रहादीनां समवतारो द्रष्टव्य इति ।। ३५८८ ।।
अथवा, व्यवहार-निश्चयनयद्वये तेषां समवतारः, अतस्तस्यैव व्यवहार-निश्चयनयद्वयस्य स्वरूपमुपदर्शयन्नाह - लोगव्यवहारपरो ववहारो भणइ कालओ भ्रमरो । परमत्थपरो मण्णइ निच्छइओ पंचवण्णोति ॥ ३५८९ ॥ लोकव्यवहाराभ्युपगमपरो नयो व्यवहारनय उच्यते । स च कालवर्णस्यैवोत्कटत्वेन लोके व्यवह्रियमाणत्वाद् भणति प्रतिपादयति 'कालको भ्रमरः' इति । परमार्थपरस्तु पारमार्थिकार्थवादी नैश्चयिको निश्चयनय उच्यते । स पुनर्मन्यते 'पञ्चवर्णो भ्रमरः ' बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पमत्वात् शुक्लादीनां च न्यग्भूतत्वेनानुपलक्षणादिति ।। ३५८९ ॥
१ तीर्थकर वचनसंग्रह विशेषपदाथात्म मूलव्याकरणी । द्रव्यार्थिकञ्च पर्यवनयश्च शेषा विकरूपा अनयोः ॥ १ ॥ २ द्रव्यास्तिकस्य द्रव्यं वस्तु पर्यवनयस्य पर्याय: । अर्पितमतं विशेषः सामान्यमनर्पितनयस्य || ३५८८ ।।
३ लोकव्यवहारपरो व्यवहारो भगति कालको भ्रमरः । परमार्थपरो मन्यते नैश्वयिकः पञ्चवर्ण इति ।। ३५८९ ।।
For Personal and Private Use Only
बृहदुतिः ।
१३४६॥
www.jainelibrary.org