SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विशेषा. वदत्ति ११३४७ अथवा, प्रकारान्तरेण व्यवहार-निश्चयनयस्वरूपमवसेयम् । कथम् ? इत्याहअहवेगनयमयं चिय ववहारो जं न सव्वहा सव्वं । सवनयसमूहमयं विणिच्छओ जं जहाभूयं ॥३५९०॥ अथवा, यत् किमप्येकैकस्यैव नयस्य मतं तद् व्यवहारः प्रतिपद्यते, नान्यत् । कुतः ? इत्याह-'जमित्यादि' यस्मात् सर्वथा सर्वैरपि प्रकारविशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोतीति शेषः, स्थूलदर्शित्वादिति । विनिश्चयस्तु निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यत इति ॥ ३५९० ॥ अथवा, ज्ञान-क्रियानयद्वये संग्रहादीनां समवताररा, अतस्तत्स्वरूपमाहनाणाहीणं सव्वं नाणनओ भणइ किंव किरियाए ? । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥३५९१॥ । भानाधीनमेव सर्वमैहिकामुष्मिकं मुखं, किमत्र क्रियया कर्तव्यम् । युक्तिश्चेहानन्तरमेव वक्ष्यति । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भणति । उभयग्राहश्चह सम्यक्त्वं स्थितपक्ष इति ।।३५९१॥ एतदेवाह नियुक्तिकारानायम्मि गिहियव्वे अगिहियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥३५९२॥ ज्ञाननयमतेन तावदियं गाथा व्याख्यायते । तत्र 'नायम्मि त्ति' ज्ञाते सम्यक् परिच्छिन्ने ग्रहीतव्ये उपादेये, अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दो द्वयोरपि ग्रहीतव्या-ऽग्रहीतव्ययोतित्वानुकर्षणार्थे, उपेक्षणीयसमुच्चयार्थे वा । 'एच' इति गाथालङ्कार| माने । 'अस्थम्मि त्ति' अर्थत इत्यर्थः । स च द्विविध:-ऐहिक आमुष्मिकश्चेति । तत्रैहिकत्रिविधः-ग्राह्यः, अग्राह्यः, उपेक्षणीयश्च । तत्र ग्राशः सक्-चन्दना ऽङ्गनादिः, अग्रायोऽहिविष-कण्टकादिः, उपेक्षणीयस्तु तृण-पांशु-शर्करादिः। एवमामुष्मिकोऽपि ग्राह्यादिभेदात् त्रिविधः । तत्र प्रायः सम्यग्दर्शन चारित्रादिः, अग्राझो मिथ्यात्वाऽज्ञाना-ऽविरत्यादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः । एवंभूतेऽर्थे यतितव्यमेव, इत्यत्रैवकारोऽवधारणे । तस्य च व्यवहितः प्रयोगः, यथा ज्ञात एवेति । तदयमर्थः-ग्राह्याऽग्राह्यो-पेक्षणीयेऽर्थे ज्ञात एव १ अथवैकनयमतमेव व्यवहारो यद् न सर्वथा सर्वम् । सर्वनयसमूहमयं विनिश्चयो यद् यथाभूतम् ॥ ३५९० ॥ २ सानाधीनं सर्व ज्ञाननयो भणति किंवा क्रियया । क्रियायाः करणनयस्तदुभयग्रहश्च सम्यक्त्वम् ।। ३५९१ ।। ३माते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे । यतितव्यमेवेति य उपदेशः स नयो नाम ।। ३५९२ ।। ॥१३४ Jan Education For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy