________________
विशेषा
बृहदत्तिः ।
॥१३४८॥
तत्माप्ति-परिहारो-पेक्षार्थिना यतितव्यम् -प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इति । एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः सः । किम् ? इत्याह-'नयः इति प्रस्तावाज्ज्ञाननयः । नामेति शिष्यामन्त्रणे । इत्यक्षरघटना । भावार्थस्त्वयम् --रह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिका-ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्ती फळविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् -
__“ विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् ॥ १॥ तथा चागमेऽप्युक्तम्-"पढमं नाणं तओ दया" इत्यादि "जं अन्नाणी कम्मं खवेइ" इत्यादि । तथाऽपरमप्युक्तम्__पावाओ विणिवत्ती पवत्तणा तह कुसलपक्खम्मि | विणयस्स पडिवत्ती तिन्नि वि नाणे समप्पंति ॥१॥" इतश्च ज्ञानस्यैव प्राधान्यम्, यतस्तीर्थकर गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्ध तथा च तद्वचनम् -
* गीयत्यो य विहारो बीओ गीयत्थमीसओ भणिओ । एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥ १ ॥"
न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम् । शायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादईतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षापतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गमाप्तिः संजायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव पुरुषार्थसिदेनिबन्धनम् । प्रयोगश्चात्र-यद् येन विना न भवति तद् तन्निबन्धनमेव, यथा जीवाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकल पुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधसामायिके सम्यक्त्व श्रुतसामायिक एवाभ्युपगच्छति, ज्ञानात्मकत्वेन तयोरेव मुख्यमुक्तिकारणत्वात् । देश सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति । तदेवं ज्ञाननयमतेनेयं गाथा व्याख्याता। अथेयमेव क्रियानयमतेन व्याख्यायते । तत्र क्रियानयो वदति-इह ज्ञातेऽवबुद्धे ग्रहीतव्यादिकेऽर्थे सर्वामपि पुरुषार्थसिद्धिम
१ पापाद् विनिवृत्तिः प्रवर्तना तथा कुशलपक्षे । विनयस्य प्रतिपत्तिस्त्रीण्यपि ज्ञानं समर्पयन्ति ।। १ ॥
२ गैतार्थश्चविहारो द्वितीयो गीतार्थमिश्रको भणितः । एतस्मात् तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १ ॥ ३ ज. 'क्वसामायिकश्च'।
॥१३४८
Jan Education International
For Personal and Price Use Only