SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२३७॥ इहलोए अत्थ-कामा आरोग्गं अभिरई य निप्फत्ती । सिद्धी य सग्ग-सुकुलपज्जायाई य परलोए ॥३२२३॥ इहलोके नमस्कारादर्थ-कामौ भवतः, आरोग्यं निरुजत्वमुपजायते । एते चार्थादयः शुभविपाकिनोऽस्माद् भवन्ति तथा चाह- आभिमुख्येन रतिरभिरतिः, सा चेहलोकेऽप्यर्थादिभ्यो भवति, परलोकविषया तु तेभ्य एव, शुभानुबन्धित्वात् । निष्पत्तिः 'पुण्यस्य' इति गम्यते; अथवा, 'अभिरतेश्च निष्पत्तिः' इत्येकवाक्यतैव । तथा, सिद्धिश्च मुक्तिश्च, स्वर्गः, सुकुलमत्ययादिश्च परलोके इत्यस्यामुष्मिकफलमिति ॥ ३२२३ ॥ अथात्र द्विविधेऽपि फले पूर्वोपक्षिप्तान् दृष्टान्तानाह इहलोगम्मि तिदंडी सा दिव्वं माउलुंगवणमेव । परलोए चंडपिंगल इंडियजक्खो य दिटुंता ॥ ३२२४ ॥ इयं सकथानकभावार्था मूलावश्यकटीकातोऽवसेया ॥ इति नियुक्तिगाथार्थः ॥ ३२२४ ॥ अथ भाष्यकारः प्रयोजन-फलयोर्विवरणमाहसैयओवओगकिरियागुणलाभो तप्पओयणमिहेव । कालंतरनिप्फत्ति फलमिह-परलोग-मुक्खेसु ॥३२२५॥ कम्मक्खओऽणुसमयं तल्लाभे चेव तदुवओगाओ। सव्वत्थेसु य मंगलमविग्घहेऊ नमोकारो ॥ ३२२६ ॥ व्याख्या- तस्य नमस्कारस्य प्रयोजनं तत्प्रयोजनमिहवेहलोक एव । किमिति । अत्रोच्यते- तद्विषयसततोपयोगक्रियया यः कर्मक्षय-क्षयोपशमादिगुणस्य लाभः। फलं तु नमस्कारस्य 'कालंतरनिप्फत्ति ति' कालान्तरे निष्पत्तिर्यस्य तत् कालान्तरनिष्पत्ति कालान्तरभावीत्यर्थः। तच्च ‘इह त्ति' इहलोकेऽर्थ-कामादिकम् , 'परलोए त्ति' परलोके स्वर्गादिकम् , मोक्षे तु जरा-मरणाभावादिकमिति । तदेवं सामान्यतः प्रयोजनं फलं चोपदर्शितम् । अथ प्रयोजनं विशेषतो दर्शयति- 'कम्मेत्यादि' 'तल्लाभे चेव त्ति' तस्य नमस्कारस्य लाभकाल एव तदुपयोगाद् नमस्कारोपयोगादनुसमयं कर्मक्षयो भवति तथा, सर्वार्थेषु च सर्वकार्येषु प्रवृत्तानां इहलोकेऽर्थ-कामावारोग्यमभिरतिश्च निष्पत्तिः । सिद्धिश्च स्वर्ग-सुकुलपर्यायादिश्च परलोके ॥ ३२२३ ॥ २ इहलोके निदण्डी सा दिव्यं मातुलुङ्गवनमेव । परलोके चण्डपिङ्गलो हुण्डिकयक्षश्च दृष्टान्तौ ॥ ३२२४ ॥ ३ सततोपयोगक्रियागुणलाभस्तत्प्रयोजनमिहैव । कालान्तरनिष्पत्ति फलमिह-परलोक-मोक्षेषु ॥ ३२२५ ॥ कर्मक्षयोऽनुसमयं तलाम एव तदुपयोगात् । सर्वार्थेषु च मङ्गलमविघ्नहेतुर्नमस्कारः ॥ ३२२६ ॥ २॥१२३७॥ For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy