________________
विशेषा.
बृहद्वृत्तिः ।
॥१२३८॥
मङ्गलमविघ्नहेतुर्नमस्कारः संपद्यत इति ॥ ३२२५ ॥ ३२२६ ॥
अत्र कश्चिदाह- 'ननु नमस्कारोपयोगात् कर्मक्षयो भवति' इत्येतत् कुतः ? इत्याह
सुयमागमो त्ति तओ सुओवओगप्पओयणो तं च । आयहियपरिण्णाभावसंवराई बहुविगप्पं ॥ ३२२७ ॥
तकोऽसौ नमस्कारः श्रुतमागम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः प्रयोजनं फलमस्येति कृत्वा । तच्च श्रुतोपयोगप्रयोजनमात्महितभावसंवरादिभेदन बहुविकल्पं बहुभेदम्। उक्तं च
"आयहियपरिण्णाभावसंवरो नवनवो य संवेगो । निकंपया तवो निजरा य परदेसियत्तं च ॥ १॥" इत्यादि । अतो नमस्कारस्य श्रुतरूपत्वाद् भवत्येव तदुपयोगात् कर्मक्षय इति ॥ ३२२७ ।। अत्र प्रेरकः पाह
पूयाफलप्पया नहि नहं व कोव-प्पसायविरहाओ। जिण-सिद्धा, दिद्रुतो वइधम्मेणं निवाईया ॥३२२८॥
नमस्कारलक्षणायाः पूजायाः फलं पूजाफलं तत्पदौ नहि नैव जिन-सिद्धौ, कोप-प्रसादरहितत्वात् , नभोवदिति । ये तु पूजाफलदास्ते कोप-प्रसादरहिता न भवन्ति, यथा नृपादय इत्येष वैधये॒ण दृष्टान्त इति ॥ ३२२८ ॥
एतदेव समर्थयन्नाह
¥याणुवगाराओ अपरिग्गहाओ विमुत्तिभावाओ । दूराइभावओ वा विफला सिद्धाइपूय त्ति ॥ ३२२९॥
विफला सिद्धादिपूजेति प्रतिज्ञा । हेतूनाह- पूजाया अनुपक्रियमाणत्वात् , तदपरिग्राहित्वात् , अमूर्तत्वात् , दूरादिभावात्, नभोवदिति ॥ ३२२९ ॥
श्रुतमागम इति सकः श्रुतोपयोगप्रयोजनस्तच्च । आत्महितपरिज्ञाभावसंवरादि बहुविकल्पम् ॥ ३२२७॥ २ आत्महितपरिज्ञाभावर्सवरो नवनवश्च संवेगः । निष्कम्पता तपो निजरा च परदेशितत्वं च ॥१॥ २ पूजाफलप्रदी नहि नभ इव कोप-प्रसादविरहात् । जिन-सिद्धौ, दृष्टान्तो वैधम्र्येण नूपादिकाः ॥ ३२२८ ॥ ४ पूजानुपकारादपरिग्रहाद् विमूर्तिभावात् । दूरादिभावतो वा विफला सिद्धादिपूजेति ॥ ३२२९ ॥
॥१२३८॥
RREN
Jan Education Internatio
For Personal and Price Use Only
PRw.jainelibrary.org