________________
विशेषा०
॥१२३९ ।।
Jain Education Intern
अत्र प्रतिविधानमाह -
'जिण-सिद्धा दिंति फलं पूयाए केण वा पवण्णमिणं । धम्माऽधम्मनिमित्तं फलमिह जं सव्वजीवाणं ॥ ३२३०॥ बृहद्वृत्तिः । ते यजओ जीवगुणा तओ न देया न वा समादेया । कयनासा ऽकयसंभोग-संकरे -गत्तदोसाओ ॥ ३२३१॥ व्याख्या - नन्वयमनुक्तो पालम्भः सर्वोऽपि पूर्वोक्तः, यस्मात् 'जिन-सिद्धाः पूजायाः फलं ददति' इति केनेदं प्रपन्नम् १ | धर्मा-ऽधर्मनिमित्तमेव हि यस्मात् स्वर्ग-नरकादिकं फलमिह सर्वजीवानामिति । तौ च धर्मा-धर्मों यतो जीवगुणौ ततो न कस्यापि देय दातव्यौ, नापि कुतश्चित् समादेयौ ग्राह्यौ, ज्ञानादिगुणवत् । कुतः ? इत्याह- 'कयनासेत्यादि' यदि होते जिन-सिद्धाः कुपिताः सन्तः कस्यापि धर्ममपहरेयुः, अधर्मे च प्रयच्छेयुः, तदा कोपविषयभूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाधर्मस्यागमः स्यात्, प्रसन्ना वा यदि कस्याप्याकस्मिकं धर्म प्रयच्छेयुः, अधर्म चापहरेयुः, तदाऽकृतस्य धर्मस्यागमः कृतस्य चाधर्मस्य नाशो भवेदिति । एवं यदा ते प्रसन्नाः कुपिता वा कस्यापि सम्बन्धिनौ धर्मा-धर्मावाच्छिद्यान्यस्य दद्युः, अन्यस्य सम्बन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्मा-धर्मयोः संकरः, एकत्वं वा स्यात् । एवं स्वर्ग-नरकादिके धर्मा-धर्मफलेऽपि कृतनाशादिभावना कार्येति ॥ ३२३० ॥ ३२३१ ।।
अपि च,
नाणाबाहं मुक्खो पूयाफलं जओऽभिमयं । तं नायपज्जयाओ देयं जीवाइभावो व्व ॥ ३२३२ ॥
ज्ञाने सत्यनाबाधस्य यत् सुखं तद्रूपो यो मोक्षः स एव यस्माद् नमस्कारलक्षणायाः पूजायाः परमार्थतो मुख्यं फलमभिमतम्, स्वर्गादेरानुषङ्गिकफलत्वात् । तच्च यथोक्तं सुखं न कस्यापि देयं दातुं शक्यम्, आत्मपर्यायत्वात्, जीव-चैतन्यादिभाववत् । ततश्च पूजाफलदाननिषेधे सिद्धसाधनमेवेति ।। ३२३२ ॥
यदि पूजाफलं न देयं तर्हि किं देयमिह भवेत् ? इत्याह
१ जिन-सिद्धा ददति फलं पूजायाः केन वा प्रपन्नमिदम् । धर्मा-धर्मनिमित्तं फलमिह यत् सर्वजीवानाम् || ३२३० ॥
ते च यतो जीवगुणास्ततो न देया नवा समादेयाः । कृतनाशा ऽकृतसंभोग-संकरै- कत्वदोषेभ्यः ॥ ३२३१ ॥
२ ज्ञानानाबाधसुखं मोक्षः पूजाफलं यतोऽभिमतम् । तद् नात्मपर्यायाद् देयं जीवादिभाव इव ॥ ३२३२ ॥
For Personal and Private Use Only
॥१२३९॥
www.jainelibrary.org