________________
विशेषा०
॥१२४०॥
Jain Educator Internations
भाइ होज देयं न तदत्थो पूयणप्पयत्तोऽयं । तंपि सकओदयं चिय बज्झनिमित्तं परो नवरं ॥ ३२३३ ॥
शाल्योदनादिरूपं भक्तादिकं परस्मै देयं भवेत्, स्थूलपुद्गलस्कन्धमयत्वात्, घटादिवत् । केवलं तदर्थो भक्ताद्यर्थोऽयं पूजनप्रयत्नो न भवति, किन्तु मोक्षार्थः । किञ्च तदपि भक्तादिकं स्वकृतात् कर्मण उदय उत्पत्तिर्यस्य तत् स्वकृतोदयं स्वकृतकर्मजनितमेवेत्यर्थः । यस्तु परः कश्चिद् दाता दृश्यते स केवलं बाह्यनिमित्तमात्रमेव । निश्चयतस्तु बाह्यो न कोऽपि कस्यापि दाता अपहर्ता चेति ।। ३२३३ ॥
एतदेव समर्थयन्नाह -
कैम्मं सुहाइहेऊ बज्झयरं कारणं जया देहो । सद्दाइ बज्झतरयं जइ दायारे कहा का णु ? || ३२३४ || तम्हा सकारणं चिय सुहाइ बज्झं निमित्तमेत्तायं । को कस्स देइ हरइ व निच्छयओ का कहा सिद्धे ?|| ३२३५ ॥
व्याख्या - यदि हन्त ! सुख-दुःखानामन्तरङ्गं कर्मैव हेतुः, देहस्तु यदा तेषां बाह्यतरं कारणम्, शब्द-रूपादिकं तु शुभाशुभम बाह्यतरं कारणम्, तदाऽतिवाह्यतरादपि परभूते दातरि कात्र किल कारणत्वकथा ? इति । तस्मात् स्वमात्मीयं कर्मैव कारणं यस्य तत् स्वकारणमेव सुखादि, बाह्यं तु देह-शब्द-रूपादिकं निमित्तमात्रकमेव । ततो निश्चयतः कः कस्मै ददाति, अपहरति वा ? न कश्चिदित्यर्थः । तथा च सति क्षीणराग-द्वेषे सिद्धे का नमस्कार फलदातृत्वकथा ? इति ।। ३२३४ ।। ३२३५ ॥
अत्र परप्रेर्ये परिहारं चाह
जैइ सव्वं सकयं चिय न दाण -हरणाइफलमिहावन्नं । नणु जत्तो च्चिय सकयं तत्तो च्चिय तप्फलं जुत्तं ॥३२३६॥ दाणाइपराणुग्गहपरिणामविसेसओ सओ चेव । पुण्णं हरणाइ- परोवधाय परिणामओ पावं ॥ ३२३७ ॥
१ भक्तादि भवेद् देयं न तदर्थः पूजनप्रयत्नोऽयम् । तदपि स्वकृतोदयमेव बाह्यनिमित्तं परो नवरम् ॥ ३२३३ ॥
२ कर्म सुखादिहेतुर्बाह्यतरं कारणं यदा देहः । शब्दादि बाह्यतरकं यदि दातरि कथा का नु ? ॥ ३२३४ ॥
तस्मात् स्वकारणमेव सुखादि बाह्यं निमित्तमात्रकम् । कः कस्य ददाति हरति वा निश्रयतः का कथा सिद्धे ? ॥ ३२३५ ॥ ३ यदि सर्व स्वकृतमेव न दान- हरणादिफलमिहापश्नम् । ननु युक्त एव स्वकृतं तत एव तत्फलं युक्तम् ॥ ३२३६ ॥ दानादिपरानुग्रहपरिणाम विशेषतः स्वत एव पुण्यं हरणादि परोपघातपरिणामतः पापम् ॥ ३२३७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४०॥
www.jainelibrary.org