________________
बिशषो०
॥१२४१॥
Jain Educator Inter
'तं पुण्णं पाव वा ठियमत्तणि बज्झपच्चयाविक्खं । कालंतरपागाओ देइ फलं न परओ लब्भं || ३२३८ ॥
व्याख्या - ययुक्तप्रकारेण यल्लोकः शुभमशुभं वा फलमनुभवति तत् सर्व स्वकृतमेवेष्यते, न पुनः कोऽपि कस्यापि किमपि ददात्यपहरति वा तर्हि दाना-पहरणादीनामिह दातुरपहर्तुर्वा न किश्चित् फलमित्यापन्नम्, स्वकृतस्यैव फलेन तस्य प्राप्तत्वादिति । सूरिराह- ननु यत एव तत् स्वकृतम्, तत एव तत्फलं दातुरपहर्तुश्च युक्तम् । दाता हि दानसमये परानुग्रहपरिणामविशेषात् स्वत एव पुण्यं बध्नाति, अपहर्ता तु परोपघातपरिणामात् स्वत एव पापं बभ्राति । अतस्तयोस्तत् पुण्य-पापलक्षणं फलं स्वकृतमेवेति कथं न युक्तम् १ युक्तमेवेति । एतदेवाह - 'दाणाईत्यादि' आदिशब्दाद् दयादिपरिग्रहः । 'सओ चैव ति' स्वत एव स्वकृतमेव दातुः पुण्यम् स्वत एव चापहर्तुः पापम् । शेषं गतार्थमिति । तच्च पुण्यं पापं वा स्वपरिणामजनितमात्मभ्येव स्थितम्, किन्तु बाह्यनिमित्तमात्रापेक्षं कालान्तरे विपाकात् शुभमशुभं वा फलं ददातीति 'परकृतम्' इति व्यपदिश्यते, न पुनः परमार्थतस्तत् पुण्य-पापफलं परतो लभ्यमिति ।। ३२३६ ।। ३२३७ ।। ३२३८ ॥
२५६
ननु परतस्तल्ला को दोषः १ इत्याह
जैइवा परलहियव्वं तत्तो च्चिय जेण तप्परिग्गहियं । तो तम्मि सिवं पत्ते कुगइगए वा कुओ लब्भं ? ॥३२३९॥ स्पष्टा ।। ३२३९ ॥
अपि च, यदि येन यद् दत्तं तस्मै तद् देयम्, यस्य चापहृतमसावपि तस्याहरति, तहींदं दूषणम् । किं तत् १ इत्याहMes अहिंतो वाकओ साहू जं दिज्ज पुव्वदायस्स १ । कत्तोऽवहारिणो तं जं पडिहीरिज्ज से धणिणो ? ॥ ३२४०॥ अहव मई जं तेण वि दिष्णं अण्णस्स तं तओ लहुं । पडिदेइ तहाहारी हारीओ अण्णओ लहुं || ३२४१ ||
१ तत् पुण्यं पापं वा स्थितमात्मनि बाह्यप्रत्ययापेक्षम् । कालान्तरपाकाद् ददाति फलं न परतो लभ्यम् ॥ ३२३८ ॥
२ यदिवा परलब्धव्यं तत एव येन तत्परिगृहीतम् । ततस्तस्मिन् शिवं प्राप्ते कुगतिगते वा कुतो लभ्यम् ? ॥ ३२३९ ॥
३ लभतेऽददद् वा कुतः साधुर्यद् दद्यात् पूर्वेदातुः १ । कुतोऽपहारिणस्तद् यत् प्रतिहियते तस्य धनिनः १ ॥ ३२४० ॥ अथवा मतिर्यत् तेनापि दत्तमम्यस्य तत् ततो लब्ध्वा । प्रतिदद्यात् ताहारी हारिणोऽन्यतो लब्ध्वा ॥ ३२४१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२४१॥
www.jainelibrary.org