________________
चार
विशेषा
॥१२४२॥
व्याख्या- वाऽथवा, इह निर्ग्रन्थत्वेन साधुर्दानमदददप्रयच्छन् मृत्वा भवान्तरं प्राप्तः पूर्वमदत्तत्वात् कुतः कस्मादाहारादिक तल्लभते यत् पूर्वभवसंबन्धिन आहारादिदातुस्तदानीं दद्यात् ? इति; यो वा पूर्वभवे कस्यापि संबन्धिनमपहृत्य मृतो जन्मान्तरे निःस्वो जातः 'से' तस्य परधनापहारिणः कुतस्तद् धनं यत् पूर्वभवनिना प्रतिहियते ? इति । अथ मतिः परस्य भवेत्- तेनापि साधुना यदनेकभवेष्वन्यस्याहारादिकं दत्तं तत् ततो लब्ध्वा पूर्वभवदातुः प्रतिददाति; तथा, योऽपि पूर्वभवे परधनमपहृत्येहभवे निःस्वो जातस्तस्यापि संबन्धिनं नानाभवेष्वन्येनान्येन वाऽपहृतमास्ते, ततश्चासौ ततः स्वधनापहारिणोऽन्यतः सकाशात् स्वापहृतं लब्ध्वा यस्य सत्कं तेन पूर्वमपहृतं तस्मै 'प्रतिदद्यात्' इति शेषः॥ ३२४० ॥ ३२४१ ॥ __ तदेतत् सर्वमयुक्तम्, कुतः । इत्याहएवं होउणवत्था दाण-ग्गहणाणमपरिभोगो य । जइ परओ लद्धव्वं दिण्णं वा तस्स तं चेव ॥ ३२४२ ॥
यदि दानादिविषयस्वपरिणामवशात् पुण्य-पापे नेष्येते, किन्तु यद् यस्मै दत्तं तत् तस्मादेव परतो लभ्यमित्यभ्युपगम्यते; यस्माद् वा यदाहारादिकं कदापि लब्धं तस्यैवान्यदा दत्तं न पुनर्दायकेन ग्राहकस्य किमप्याधिकं कृतमिति चेष्यते; तदैवं सति दान-ग्रहणयोरनवस्था प्रामोति; यस्मै दान तस्मात् पुनर्ग्रहणम् , पुनरपि चान्यस्मै दानम् , पुनरपि तस्माद् ग्रहणमित्यादि । ततश्च । दान-ग्रहणपरम्पराव्यापृतस्य मोक्षाभावप्रसङ्गः, दानफलस्य च स्वयमपरिभोगः पामोति, अन्योन्यदान-ग्रहणाभ्यामाय-व्ययविशुद्धत्वादिति ॥ ३२४२॥
तदेवं तीर्थिकविशेषाणां सौस्नातिकादीनां मतमपाकृत्योपसंहारपूर्वकं स्वाभिमतमुपदर्शयन्नाहतैम्हा स-पराणुग्गहपरिणामाओ सुपत्तविणिओगा । दाया पुण्णं पावइ जं तत्तो से फलं होइ ॥ ३२४३ ॥
तस्मात् स्व-परानुग्रहपरिणामेन सुपात्रेषु वित्तविनियोगाद् दाता यत् पुण्यं प्रामोति, ततः 'से' तस्य दातुः फलं स्वर्गादिकं | भवतीति ॥ ३२४३॥ तदेवमुक्तनीत्या दाता स्वत एवेदं स्वर्गादिफलं लभते, न तु परतः, ग्रहीताप्येवमेव द्रष्टव्य इति दर्शयन्नाह, एवं भवत्वनवस्था दान-ग्रहणयोरपरिभोगश्च । यदि परतो लब्धव्यं दत्तं वा तस्मै तदेव ॥ ३२५२॥
॥१२४२॥ २ तस्मात् स्व-परानुग्रहपरिणामात् सुपात्रविनियोगात् । दाता पुण्य प्राप्नोति यत् ततस्तस्य फलं भवति ॥ ३२५३ ॥
ECOMANTARNATATATALA
For Personal
use only