________________
विशेषा.
यदि निष्क्रमणकाले भगवांश्छद्यस्थो गुणाधिकानां सिद्धानां नमस्कारं करोति, करोतु नाम तदा, न कश्चिद् दोषः । के प्रति न दोषः ? इत्याह-तं छअस्थतीर्थङ्करं प्रति । न ह्यसौ तत्कालमर्हन् , केवळोत्पत्तावेव तद्भावादिति । यदि च्छद्मस्थतीर्थकरा- बृहद्वतिः । पेक्षया गुणाधिकाः सिद्धा भवद्भिरपीष्यन्ते, तर्हि कथं छद्मस्थतीर्थकरादिर्नमस्कारः इति चेत् । तदयुक्तम् । कुतः? इत्याह-न च तदादिश्छद्मस्थतीर्थकरादिनमस्कार इष्यतेऽस्माभिः, किन्तु समुत्पन्न केवळज्ञानाऽहंदादिरेव । स च केवल्यर्हन् सिद्धादिवस्तुस्तोमस्वरूपोपदेशदानतः सिद्धेभ्यो गुणाधिक इत्युक्तमेवेति । अतोऽईदादिरेव नमस्कार इति ॥ ३२२०॥
अत्राक्षेप-परिहारौ प्राइ
एवमकयत्थकाले सिद्धाई होउ, भण्णइ तयावि । अण्णे संतरुहंता तओ तयाई तओ निच्चं ॥ ३२२१॥
यदि कछद्मस्थतीर्थकरापेक्षया गुणाधिकाः सिद्धाः, तद्देवं सत्यकृतार्थच्छमस्थतीर्थकरकाले सिद्धादिर्नमस्कारो भवतु, न्यायोपपन्नत्वादिति । भण्यतेऽत्रोत्तरम्- हन्त ! यदात्र भरतादौ च्छद्मस्थतीर्थकरस्तदापि महाविदेहेष्वन्ये केवलिनोईन्तः सन्ति । ततस्तदादिरईदादिरेव तकोऽसौ नमस्कारो नित्यं सर्वदा ।। इति गाथाष्टकार्थः ॥ ३२२१ ।।
॥ तदेवमुक्तं क्रमद्वारम् ॥ अथ प्रयोजन-फलयोर्दर्शनार्थमाह
ऐत्थ य पओयणमिणं कम्मक्खय मंगलागमो चेव । इहलोय-पारलोइयकुविहफलं तत्थ दिलुता ॥३२२२॥
अत्र च नमस्कारकरणे प्रयोजनमिदं यदुत- करणकाल एवाक्षेपेण ज्ञानावरणादिकर्मक्षयः, अनन्तकर्मपुद्गलापगममन्तरेण भावतो नमस्कारस्याप्यप्राप्तेरित्युक्तमेव तथा, मङ्गलागमश्चैव यः करणकालभावीति तथा, कालान्तरभावि पुनरैहलौकिक-पारलौ| किकभेदभित्रं द्विविधं फलम् । तत्र दृष्टान्ता वक्ष्यमाणलक्षणा इति ।। ३२२२ ॥ तदेव द्विविधं फलं तावद् विवृण्वन्नाह१ एषमकृतार्थकाले सिद्धादिर्भवतु, भण्यते तदापि । अन्ये सन्त्यर्हन्तस्ततस्तदादिः सको नित्यम् ॥ ३२॥
॥ि१२३६॥ २ अत्र च प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्चैव । ऐहलौकिक-पारलौकिकद्विविधफलं तत्र दृष्टान्ताः ॥ ३२२२ ॥
SRO
CORRECTIONEERIES
For Personal
Use Only