________________
विशेषा०
॥१२०१॥
RRORG
तो कहमिहेव भणियं उवउत्ता दसणे य नाणे य? । समुदायवयणेमयं उभयनिसेहो य पत्तयं ॥३०९९॥
यदि न युगपदुपयोग इष्यते, तत आचार्य ! कथमिव भणितम् ?- तथाचेहैव भणिष्यतीत्यर्थः । किं तत् ? इत्याह- 'उवउत्ता दसणे य नाणे य त्ति' दर्शने ज्ञाने च युगपदुपयुक्ता इह किल भणिता इति परस्याभिप्रायः । अयं च मिथ्याभिमानापहृतसद्धोधकत्वात् कदभिप्राय एवेति दर्शयति- 'समुदायवयणमेयं ति' समुदायविषयमेवेदम्- न तु युगपदुपयोगपतिपादनपरमित्यर्थः । अनन्ता हि सिद्धाः, तत्समुदाये च 'केऽपि ज्ञान उपयुक्ताः, केचित्तु दर्शने' इत्ययमत्रार्थः। प्रत्येकविवक्षायां पुनः पत्तयावरणत्तं' इत्याद्यभिहितयुक्तयुगपभयोपयोगनिषेध एव मन्तव्य इति ।। ३०१९ ॥
पुनरपि प्रेर्य-परिहारौ माह
जमपज्जंताई केवलाई तेणोभओवओगो त्ति । भण्णइ नायं निअमो संतं तेणोवओगो त्ति ॥ ३१.०॥
साद्यपर्यवसितत्वाद् यस्मादपर्यन्ते अविनाशिनी सदावस्थिते केवलज्ञान-दर्शने, तेन तस्माद् युगपदुपयोग इष्यतेऽस्माभिः । इह हि यद् बोधस्वभावं सदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमंत्र, अन्यथोपलशकलकल्पत्वेन बोधस्वभावत्वानुपपत्तेः, सदोपयोगे च योर्युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः । आचार्य आह- भण्यतेऽत्रोत्तरम्- नायं नियमः, सर्वदा यल्लब्धिमाश्रित्य सद् विद्यमानं केवलज्ञानं केवलदर्शनं च, तेन तयोरुपयोगेनापि सर्वदा भवितव्यमिति ।। ३१०० ॥
कुतः पुनर्नायं नियमः ? इत्याहठिइकालं जह सेसदसण-नाणाणमणुओगे वि । दिट्ठमवत्थाणं तह न होइ कि केवलाणं पि ? ॥३१.१॥
यथा केवलज्ञान-दर्शनाभ्यां शेषाणि यानि ज्ञानानि दर्शनानि च तेषां निजनिजस्थितिकालं यावदनुपयोगेऽपि उपयोगाभावेऽपि सत्त्वस्यावस्थानं दृष्टम् , तथा केवलज्ञान-दर्शनयोरपि निजस्थितिकालं यावदनुपयोगेऽपि सत्त्वस्यावस्थानं किमिति न भवति ? । भवति चेत् , तर्हि 'सतो ज्ञानस्य दर्शनस्य चोपयोगेन भवितव्यम्' इत्यनैकान्तिकमेव । इयमत्र भावना-शेषज्ञान-दर्शनानां
॥१२०१५
, ततः कथमिहैव भणितमुपयुक्ता दर्शने च ज्ञाने च । समुदायवचनमेतदुभयनिषेधश्च प्रत्येकम् ॥ ३०९९ ॥ २ ज. 'मियं' ३ गाथा ३०९३ । ४ यदपर्यन्ते केवले तेनोभयोपयोग इति । भण्यते नायं नियमः सत् तेनोपयोग इति ॥ ३१.०॥
५ स्थितिकालं यथा शेषदर्शन-ज्ञानयोरनुपयोगेऽपि । दृष्टमवस्थानं तथा न भवति किं केवलयोरपि ॥21.1॥
Jan L
inea
For Personal and
Use Only