SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ विशेषा बदतिः। ॥१३५१५ इत्यादि । अत्राह-नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् । न हि यद् येषु प्रत्येक नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान क्रिययोर्मुक्त्यवापिका शक्तिः, तथा चहापि प्रागुक्तम् पेत्तयममावाओ निव्वाणं समुदिआसु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकयासमुदायतेलं व ॥ १॥ उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयते । यदा तु तयोः प्रत्येकं देशोपकारिता, समुदाये तु संपूर्णोपकारिता, तदा न कश्चिद् दोषः । तथाचेहापि प्रागिदमप्युक्तम् वी न सव्वह चिय सिकयातेलं व साहणाभावो । देसोक्गारिया मा सा समवायम्मि संपुन्ना ॥ १॥ अतः स्थितमिदम् -ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति । तद्युक्तश्च भावसाधुः सर्वैरपि नयैरिष्यत एव । तस्माद् व्यवस्थितमिदम्-तत् सर्वनयविशुद्धं यच्चरण-गुणस्थितः साधुरिति ।। ३५९३ ।। अमुमेव गाथाद्वयार्थ कश्चिद् भाष्यकार एवाहनाओ ति परिच्छिन्नो गेज्झो जो कज्जसाहओ होइ । अग्गेज्झोऽणुवगारी अत्थो दव्वं गुणो वावि ॥ ३५९४ ॥ जइअव्वं ति पयत्तो कज्जो गेज्झम्मि गिण्हियव्वे ति । अगिज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥ ३५९५ ॥ इति जो त्ति एवमिह जो उवएसो जाणणा नओ सो ति । सो पुण सम्मइंसणसुयसामइयं ति बोडव्वो ॥३५९६॥ तिस्रोऽपि गतार्थाः । नवरं 'नायम्मि" इत्यस्य व्याख्या ज्ञात इति परिच्छिन्नः । 'गिहियो' इत्यादेाख्यानं 'गेज्झो' इत्यादि । 'अर्थः' इत्यस्य विवरणं 'द्रव्यं गुणो वा' इति । 'जाणणा नओ सो ति' ज्ञाननयः स इत्यर्थः । अस्योपलक्षणत्वाद् दार्शत १ प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-क्रिययोवक्तुं सिकतासमुदायतैलमिव ॥ १ ॥ २ विष्वग्न सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ १॥ ३ ज्ञात इति परिच्छिन्नो प्राह्या या कार्यसाधको भवति । अग्राह्योऽनुपकारी अर्थो द्रव्यं गुणों वापि ॥ ३५९४ ॥ यतितव्यमिति प्रयत्नः कार्यों ग्राो प्रहीतव्य इति । अग्राह्योऽनादयोऽवधारणे चैवशब्दोऽयम् ॥ २५९५ ।। इति य इत्येवमिह य उपदेशो ज्ञाननयः स इति । स पुनः सम्यक्त्वदर्शनश्रुतसामायिकमिति घोद्धव्यः ।। ३५९६ ।। ११३५१॥ Jain Educationa.Inte For Personal and Price Use Only www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy