SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ क बृद्दवत्तिः । विशेषा ॥१३५२॥ व्याख्यासंबन्धेन क्रियानयोऽपि योजनीयः, केवलं देश-सर्वविरतिसामायिकरूपोऽसावित्यादि सर्व प्रोक्तं स्वयमेवानुसरणीयमिति ॥ ३५९४ ॥ ३५९५॥ ३५९६ ।। 'सव्वेसि पि नयाणं' इत्यस्य व्याख्यामाहसव्वे त्ति मूल-साह-प्पसाहभेया विसदओ तेसिं । किं पुण मूलनयाणं अहवा किमुताविसुद्धाणं ? ॥३५९७॥ 'सवेसि पि' इति कोऽर्थः ? इत्याह-मूल त्ति' मूलनयानां नैगमादिनयानामपिशब्दात् शाखा-प्रशाखारूपाः । 'तेसिं ति' तेषामेव मूलनयानामुत्तरभेदा गृह्यन्ते तेषां सर्वेषामपि, किं पुनः केवलानां मूलनयानाम्, अथवा, किमुताविशुद्धानां द्रव्यार्थिकादीनामिति ॥ ३५९७॥ 'बहुविहवत्तव्ययं' इत्यादेर्व्याख्यानमाहसामन्नविसेसोभयभेया वत्तव्वया बहुविह तिं । अहवा नामाईणं इच्छइ को कं नओ साहुं ॥ ३५९८ ॥ सोउं सहहिऊण य नाऊण य तं जिणोवएसेणं । तं सवनयावसुद्धं ति सव्वनयसम्मयं जं तु ॥ ३५९९ ॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्ठियं जं चरणनया बिंति साहु त्ति ॥३६००॥ सो जेण भावसाहू सव्वनया जं च भावमिच्छति । नाण-किरियानओभयजुत्तो य जओ सया साहू ॥३६०१॥ एता अपि गतार्थाः, नवरं 'अहवा नामाईणमित्यादि' अथवा, नाम स्थापना-द्रव्य-भावसाधूनां मध्ये को नयः कं साधुमिच्छति ? इत्यादिका वक्तव्यतां श्रुत्वा श्रद्धाय ज्ञात्वा चावबुध्येत्यर्थः । 'एस किरियानओ नाम त्ति' एप ज्ञानाविनाभूतक्रियालक्षणो नयोनीतिपक्षः स्थितपक्ष इत्यर्थः, यस्माच्चरणनयाश्चरणवृत्तयः परममुनयश्चरणगुणसुस्थितमेव साधु युवते, नापरं, स च येन यस्माद् १ सर्व इति मूलशाखा-प्रशाखाभेदा अपिशब्दतस्तेषाम् । किं पुनर्मूलनयानामथवा किमुताविशुद्धानाम् ॥ ३९९७ ।। २ सामान्यविशेषोभयभेदा वक्तव्यता बहुविधेति । अथवा नामादीनामिच्छति कः कं नयः साधुम् ।। ३१९८ ।। श्रुत्वा श्रद्धाय च ज्ञात्वा च तजिनोपदेशन । तत् सर्वनयविशुद्धमिति सर्वनयसंमतं यत्तु ॥ ३५९९ ॥ चरणगुणसुस्थितो भवति साधुरेष क्रियानयो नाम । चरणगुणसुस्थितं यचरणनया त्रुवन्ति साधुरिति ॥ ३६००। म येन भावसाधुः सर्वनया यच भावमिच्छन्ति । ज्ञान-क्रियानयोभययुक्तश्च यतः सदा साधुः ।। ३६०१ ।। ॥१३५२॥ For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy