SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ विशेषा हत्तिः ३५९३ ॥ ॥१३५०० स्थितपक्षपाह नियुक्तिकारः सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्ध जं चरण-गुणढिओ साहू ॥ ३५९३ ॥ न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्याविशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यता परस्परविरोधिनी प्रोक्तां निशम्य श्रुत्वा तदिह सर्वनयविशुद्ध सर्वनयसंमतं सर्वरूपतया ग्राह्यं यत् किम् ? इत्याह-यच्चरण गुणस्थितः साधुश्वरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम् , तयोः स्थितश्चरण गुणस्थितः ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुर्मुक्तिसा. धको न पुनरेकेन केनचिदिति भावः तयाहि यत् तावज्ज्ञानवादिना प्रोक्तम् –'यद् येन विना न भवति तत् तनिवन्धनमेव' इत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात् । न हि दाह-पाकाद्यार्थिनां दहनादिपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-संधुक्षण-ज्वळनादिक्रियानुष्ठानादपि । न च तीर्थकरोऽपि केवलज्ञानमात्राद् मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि । तस्मात् सर्वत्र ज्ञान-क्रियाऽविनापाविन्येव पुरुषार्थसिद्धिः । ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धे न निबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धः, इत्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिना 'यद् यत्समनन्तरभावि तत् तत्कारणम्' इत्यादिपयोगे यस्तदनन्तरभावित्वकक्षणो हेतुरुक्तः, सोऽप्य. सिद्धः, अनैकान्तिकश्च; तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकाळेऽपि ज्ञानमप्यस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगात् , एवं शैश्यवस्थायां | सर्वसंवररूपक्रियाकाळेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः । तस्मात् केवळक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसि दरसिद्धो हेतुः । यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा जानकारणत्वमपि, तद. प्यन्तरेण तस्य कदाचिदप्यभावादित्यनकान्तिकताप्यस्येति । तस्माज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धि, उक्तं च प्रागिहापि 'हेयं नाणं कियाहीणं हया अन्नाणिणो किया । पासंतो पंगुलो दड्ढो घावमाणो य अंधओ ॥ १॥ संजोगसिद्धीइ फलं वयांते न हु एगचक्कंग रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संप उत्ता नगरं पविट्ठा ॥२॥ १ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् सर्वनयविशुद्धं यवरण-गुणास्थितः साधुः ॥ ३५९३ ॥ २ हतं ज्ञानं क्रियाहीनं हताशानस्य क्रिया । पश्यन् पर्दग्धो धाश्चान्धकः ॥ १॥ संयोगसिद्ध्या फलं वदन्ति न चल्वेकचक्रण रथः प्रयाति । मन्धश्च पश्च वने समेत्य तो संप्रयुक्तो नगरं प्रविष्टौ ॥२॥ ॥१३५०० Jain Intion For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy