SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विशेषा १२॥ अपिच, 'कृतं क्रियते' इत्युच्यमाने वस्तुनः सर्वदैव सत्त्वमभ्युपगतं भवति, यच्च सर्वदा सत् तदाकाशवद् नित्यम्, नित्ये च वस्तुन्यकृतमिदम् , कृतं वा, क्रियमाणं वा इत्यादिव्यपदेशो न भवति, अनित्यत्वप्रसङ्गादिति ॥३३६४॥३३६५॥ अकृतपक्षमङ्गीकृत्याहअकयं पि नेय कीरइ अच्चताभावओ खपुफ्फं व । निच्चकिरियाइदोसा सविसेसयरा व सुत्तम्मि ॥ ३३६६ ॥ स्पष्टा ॥ ३३६६॥ अथ क्रियमाणं क्रियते, तत्राहसदसदुभयदोसाओ सव्वं कीरइन कजमाणं पि । इह सव्वहा न कीरइ सामाइयमओ कओ करणं ?॥३३६७॥ तत् क्रियमाणं वस्तु सदाऽसद् वा परिकल्प्येत ? । यदि सत्, तर्हि कृतपक्षोक्ताः सर्वेऽपि दोषाः प्रसजन्ति । असत्त्वपक्षे त्वक. तपक्षदोषानुषङ्गः । अथ सदसत् क्रियमाणमिष्यते, तदप्ययुक्तम्, उभयपक्षोक्तदोषप्रसङ्गादिति । एवं सर्वथा सर्वप्रकारैः सामायिकं न क्रियते । अतः कस्मात् तस्य करणम् । इति ॥ ३३६७ ॥ अत्रोत्तरमाहनणु सव्वहा न कीरइ पडिसेहम्मि वि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्ध केण सामइयं ? ॥ ३३६८ ॥ अह कयमकयं न कयं न कज्जमाणं कहं तहावि कयं । पडिसेहवयणमेयं तह सामइयं पि को दोसो १॥३३६९॥ व्याख्या-ननु सर्वथा सर्वप्रकारैः सामायिकं न कियत इत्येवं यस्त्वया प्रतिषेधो विधीयते, तत्रापि प्रतिषेधे समानमेवेदम्किमसौ कृतः क्रियते, अकृतः, क्रियमाणो चेत्यायुक्तन्यायेन सोऽपि सर्वथा न क्रियते । अतः प्रतिषेधाभावे केन प्रतिषिद्धं सामायिकम् । 6600०......21 KXXYY १ अकृतमपि नैव क्रियतेऽत्यन्ताभावतः खपुष्पमिव । नित्यक्रियादिदोषाः सविशेषतरा वा सूत्र ।। ३३६६ ।। २ सदसदुभयदोषेभ्यः सर्व क्रियते न क्रियमाणमपि । इह सर्वथा न क्रियते सामायिकमत: कुतः करणम् ? ॥ ३३६७ ।। ३ ननु सर्वथा न क्रियते प्रनिषेधेऽपि समान मेवेदम् । प्रतिषधस्याभावे प्रतिषिद्धं केन सामायिकम ।। ३३६८ ।। अथ कृतमकृतं न कृस न क्रियमाणं कथं तथापि कृतम् । प्रतिषेधवचनमेवेदं तथा सामायिकमपि को दोषः ॥ ३३६९ ।। MPSC ducationaK H For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy