________________
बृहदन्तिः ।
विशेषा०1
न केनचित् । अतः क्रियत एवैतदिति । अथैवं ब्रूपे प्रतिषेधवचनमेतत् कृतं वा सत्, अकृतं वा सद् न कृतम् , नापि क्रियमाणं कृतम् , तथापि कृतं तावत् केनाप्युच्चारणादिना प्रकारेण । हन्त ! यथा केनापि प्रकारेण त्वयैतत् कृतं तथा सामायिकमपि केनापि प्रकारेण कृतम् , अतस्तत्रापि को दोषस्त्वया दीयते ? इति ॥ ३३६८ ॥ ३३६९ ॥
अथ कृताकृतपक्षं नयमतेनोपदय सिद्धान्तपक्षमुपदर्शयन्नाहअकयमसुद्धनयाणं निच्चत्तणओ नभं व सामइयं । सुद्धाण कयं घड इव कयाकयं समयसब्भावो ॥३३७०॥
द्रव्यार्थिकरूपाणामशुद्धनयानां नैगम-संग्रह-व्यवहाराणामकृतं सामायिकम्, नित्यत्वात्, नभोवदिति । शुद्धानां तु निश्चयनयरूपाणामृजुसूत्रादीनां कृतं तत्, घटवदिति । समयसद्भावस्त्वयम्- नैकान्तेन कृतं सामायिक क्रियते, नाप्यकृतम्, किन्तु कृताकृतं क्रियत इति ।। ३३७०॥
यदि वा, सिद्धान्तस्थित्या विवक्षावशात् कृतादिभिश्चतुर्भिभङ्गैः किश्चिद् वस्तु क्रियते, किश्चित् स्वेतैश्चतुर्भिरपि भङ्गैर्न क्रियत एवेति दर्शयन्नाह
कीरइ कयमकयं वा कयाकयं वेह कजमाणं वा । कजमिह विवक्खाए न कीरए सव्वहा किंचि ॥३३७१॥
इह किञ्चित् कार्य केनापि रूपेण कृतं क्रियते, केनचिद्रूपेणाकृतं क्रियते, केनापि तु रूपेण कृताकृतं क्रियते, केनचित् प्रकारेण क्रियमाणं वा किश्चित् क्रियते; अन्यत्तु किश्चिद् विवक्षया सर्वैरपि कृतादिभिः प्रकारैर्न क्रियत इति ॥ ३३७१ ॥
__ अत्र यथासंख्पमुदाहरणम्
सैवि त्ति कीरइ कओ कुंभो संठाणसत्तिओ अकओ। दोहि वि कयाकओ सो तस्समयं कज्जमाणो त्ति॥३३७२॥ पुवकओ उ घडतया परपज्जाएहिं तदुभएहिं च । कर्जतो य पडतया न कीरए सव्वहा कुंभो ॥३३७३॥
१ अकृतमशुद्धनयानां नित्यस्खता नभ इन सामायिकम् । शुद्धानां कृतं घट इव कृताकृतं समयसद्भावः ।। ३३७० ।। २ क्रियते कृतमकृतं वा कृत कृतं वेह क्रियमाणं वा । कायमिह विवक्षया न क्रियते सर्वथा किञ्चित् ।। ३३७१ ।। ३ रूपीति क्रियते कृतः कुम्भः संस्थानशक्तितोऽकृतः । द्वाभ्यामपि कृताकृतः स तत्समय क्रियमाण इति ॥ ३३७२ ।। पूर्वकृतस्तु घटतया परपर्यायैस्तदुभयश्च । क्रियमाणश्च पटतया न क्रियते सर्वथा कुम्भः ।। ३३७३ ।।
॥१२३॥
For Personal and
Use Only
A
w.jainabrary.org