________________
विशेषा
॥१३२९॥
इहथवजीवितपर्यायविशेषितमित्यर्थ:-यावदिहभवजीवितविशिष्टो जीवस्तिष्ठति तावत् स्यास्याम्यहम्, न विहभवजीवितेऽपगत इति भावः ॥ ३५०८।।
जीवद्रव्यग्रहणे तु को दोष: स्यात् ? इत्याहईहरा जीवजीवं ति जीवदव्वग्गहणे मयस्सावि । पच्चक्खाणं पावइ गहियमओ जीवियं तं च ॥ ३५०९ ॥
इतरथा 'यावज्जीवस्' इत्यत्राविशेषितजीवग्रहणे मृतस्यापि प्रत्याख्यानं मामोति, अविशेषितजीवद्रव्यस्य सर्वदैव भावात् । अतो जीवशब्देन जीवितमिह गृहीतम् । तच्च नामादिभेदभिन्नमित्युत्तरेण संबन्ध इति ॥ ३५०९ ॥
सानेव जीवितस्य नामादिभेदानाहनाम ठवणा दविए ओहे भव तब्भवे य भोगे य । संजम-जसम-संजमजीवियमिइ तविभागोऽयं ॥३५१०॥
नामजीवितम्, स्थापनाजीवितम्, द्रव्यजीवितम्, ओघजीवितम्, भवजीवितम्, तद्भवजीवितम्, भोगजीवितम्, संयमजीवितम्, यशाजावितम्, असंयमजीवितम्, इत्येप तस्य जीवितस्य विभागो भेदः ॥ इति द्वारगाथासंक्षेपार्थ इति ॥३५१०॥
अत्र नाम-स्थापनाजीविते सुगमे, अतो द्रव्यजीवितस्वरूपं विवरीषुराहदैव्ये हिरण्ण-भेसज्ज-भत्त-पुत्ताई जीवियनिमित्तं । जं दवजीवियं तं दव्वस्स व जीवियमवत्था ॥ ३५११॥
'दब्वे त्ति' द्रव्यजीविते विचार्ये तद् द्रव्यजीवितं, यत् किम् ? इत्याह-'जति' यत् कनक-भेपज-भक्त-पुत्रादिकं जीवितनिमित्तं जीवितोपष्टम्भकारकम् । अथवा, सचित्ता वित्तभेदभिन्नस्य द्रव्यस्यैव ययाऽवस्थया 'जीवति पारदः' 'जीवति विपम्' 'जीवत्यभ्रकम्' 'जीवति लोहम्' इत्येवं ताम्र-सुवर्णादिष्वपि वाच्यम्, 'न पुनरेतदद्यापि मृतम्' इत्यादिव्यपदेशः प्रवर्तते सा विशिष्टा काचिदवस्था द्रव्यजीवितमुच्यत इति ।। ३५११ ॥
१ इतरथा यावजीवमिति जीवद्रव्यग्रहणे मृतस्यापि । प्रत्याख्यानं प्राप्नोति गृहीतमतो जावितं तच ।। ३२०९ ।। २ नाम स्थापना द्रव्यमोघो भवस्तद्भतश्च भोगश्च । संयम-यशो-संयमजीवितमिति तद्विभागोऽयम् ।। ३५१०॥ ३ द्रव्ये हिरण्य-भैषज्य-भक्त-पुत्रादि जीवितनिमित्तम् । यद् द्रव्यजीवितं तद् द्रव्यस्य वा जीवितमवस्था ।। ३५११ ।।
॥१३॥
१६६
Per Personal and
Use Only